SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ गुरुवराणां हार्दिककरुणापरिचायका एतत्तुल्यास्तु नैके प्रसङ्गाः सन्ति। ये स्थललाघवादिह लिखितान सन्ति। गुरुवराणां कालधर्मस्य सन्देशोऽस्मदीयसांसारिकजन्मभूमिदर्भावती(डभोई)नगर्यां समासादितः। तदानीं विपण्यां जैनाः स्वाऽऽपणान् पिधातुं लग्नाः। एवं दृष्टवा यवनैरन्यजनेतरैश्च पृष्टम्- "युष्माकं केन गुरुणा देवत्वं प्राप्तम् ?" उत्तरं दत्तम् - "मुम्बईमहानगरतो भक्तान (६'री'पालकसङ्घ) नीत्वा डभोईनगरे प्रतिष्ठामहोत्सवार्थमागत आसीत्, तेन गुरुणा देवत्वं प्राप्तम् (कालधर्मप्राप्तमिति)।" जैनेतरैः पुनरुक्तम् - "निर्धनिकजनानां येन वस्त्राणि अन्नभाजनादीनि चादापयत् तेन गुरुणा देवत्वं प्राप्तम् ? तस्य मानार्थं तु वयमपि आपणान स्थगितान करिष्यामः।" तस्मिन् दिने तैर्यवनैरन्यैश्च जैनेतरैरपि स्वाऽऽपणाः पिदधिरे। अयमासीत् तस्य पदयात्रासङ्घीयस्थानुकम्पादानस्य प्रभावः। एकस्मिन् संस्कृतसुभाषिते कथितम् यद न सा वीक्षा न सा भिक्षा, न तदान न लत्तपः। न त ध्यानं न तन्मौनं, क्या यत्र न विद्यते ।। एतादृशाः करुणावृत्तिप्रेरकाः श्लोका गुरुवराणां दृष्टिपथ आगता न वा तस्मादज्ञोऽस्मि। परं, एतावत् नूनं जानामि-ते गुरुवरा आसन्नेतादृशानां श्लोकानां हार्द यावज्जीवं हृदयस्थकारकाः। तत एव तु तत्रभवतां प्रत्येकप्रवृत्तिषु करुणावृत्तिर्विलसन्ती दृश्यते। सानिमय
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy