SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ एकत्र जलपूरः अन्यत्र करुणापूरः ४० पूज्ययुगदिवाकरगुरुवरा आसन् करुणाया नितरामीशाः । तत्रभवतां नेत्रहृदयान्येव दयानिचितानि आसन्नेवं न, तन्महापुरुषाणां त्वासन्नशेषरोमाणि करुणायुतानि । सांसिद्धिक (= स्वभावसिद्ध) करुणाधराणां तत्रभवतां रोम्णि रोम्ण करुणाऽऽसीत् । तां दृष्ट्वाऽनुयायिनोऽपि मिष्टमात्सर्येण ज्वलन्ति स्म । अधुनात्र वयं २०३५ तमे वैक्रमीये वर्षे सञ्जातं वृत्तान्तं लेखिनीदीपेन प्रकाशमानं कुर्मः । पूज्यपाद्गुरुवराणां तवर्षीय चतुर्मासं वढवाण (वर्धमान) नगरे स्वजन्मभूमावासीत्। ३७-३७ वर्षाणि व्यतीतानि तदनु गुरुवराणां चतुर्मासलाभाद् वढवाणग्रामीयसङ्घस्योल्लास: सहजमुल्ललित आसीत् । योगत एतस्मिन् वर्षे गुरुदेवजीवितस्य ७५ वर्षाणि परिपूर्णानि भवन्ति स्म । अतो गुरुवराणामुपकारैर्वासिता मुम्बईमहानगरीया झालावाडप्रदेशीयाश्च सङ्घा गुरुभक्त्यै विशालं 'अमृतमहोत्सव' कर्तुं बद्धकक्षा उत्कण्ठाश्च सञ्जाताः । तदानीमस्मै अमृतमहोत्सवाय रतिलालदेसाईवर्येण 'जैन' पत्रस्याऽग्रलेखमध्ये हृदयङ्गमा अमी शब्दा अलिखिता:"तत्रभवद्भिर्मुम्बई महानगरेष्वन्यस्थानेषु च शासनप्रभावकानि यानि कार्याणि कारितानि, करुणाभावप्रेरितैश्च तत्रभवदिभजनसङ्घस्य (आर्थिकरीत्या दुःखार्त्तभ्रातॄणां कष्टानां निवारकाणि यानि कार्याणि कृतानि तानि धर्मसेवायाः समाजसेवायाश्चैकप्रेरककथारूपा भवितुमर्हन्ति । ७५ वर्षीया श्रीमदाचार्यवर्या इदानीं वयोवृद्धाः सन्ति, अतलशास्त्रीयज्ञानवत्त्वात् ते ज्ञानवृद्धा अपि सन्ति, ६० वर्षाणि यावत् पृथुलसंयमपर्यायवत्त्वात् ते चारित्रवृद्धा अपि सन्ति । इत्यर्थं तत्रभवताममृतमहोत्सव उचित एव कर्तव्योऽस्ति, इतस्तु तत्रभवज्जीवनं कार्याणि च नित्यमुत्सवमा सन्ति...।" नमामि नित्वं गुरुधर्मसूरिन् १५७
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy