________________
जितंजगत्केब? गगोहियेब
एकस्मिन् म्यसुभाषिते प्रश्नोत्तरस्वरूपं वरं कथनमपठम् - 'क: शूरः? विजितेन्द्रियः' इति। अर्थाल्लोके स हि जनो यथार्ह: पराक्रमी भवेत्, य करणानिवशीकुर्यात्।
यो जन इन्द्रियवशीकरणे विफलतामाप्नुयात, स कदाचित् समरामाणे शत्रुन विजयते, किन्तु कर्मरिपुना सह भीषणयुधि तस्य नूनं पराजयो भवति। अत आत्मसाधकजनानिन्द्रियविजयार्थं महापुरुषाः प्रेरयन्ति। पूज्यपादाब्जविद्वच्छिरोमणिमहोपाध्यायश्रीमद्यशोविजयगणिवरा: स्वरचितज्ञानसारनामके ग्रन्थरले कथयन्ति - 'इन्द्रियैर्न जितो योऽसौ, धीराणां धुरिगण्यते।'
एवं वेदसम्प्रदायेऽपिशङ्कराचार्य उपदिशति-'जितंजगत्केन? मनो हि येन इति।
यदा कश्चिन् मुमुक्षुश्चारित्रमार्गमङ्गीकरोति, तदा जगतो जनास्तस्य मनोनीतानां सर्वासामभीप्सानां सन्तृप्त्यै परिश्राम्यन्ति। किन्तु यथार्थमुमुक्षुस्तु तस्मिन् समयेऽपीन्द्रियजयार्थं कश्चिदवसर उपस्थितो भवेत्, तर्हि सीमातीत हर्षमाप्नोति। वयमुन्नतिशीलस्य मुमुक्षुभाईचन्दकुमारस्य जीवनं पश्येमा तञ्जीवने निर्मितेनैवविधेन प्रसङ्गेल परिज्ञाता भवामः, तेन चेन्द्रियजयार्थ प्रेरणा प्राप्नुयामः।
मातरमग्रजबन्धुंध विहाय माईंचन्दकुमारस्य परिवारजनास्तस्य संयमग्रहणे नितरां विघ्नकरा आसन्। ततोऽन्यदा 'सी.एन.' विद्यालयेऽध्ययनं कुर्वन् भाईचन्दकुमारो प्रव्रज्याप्रतिपत्यै निवृत्तिं गृहीत्वा विद्यालयान्निर्गत्य वटपद् (वडोदरा) नगरे पूज्यपादारविन्दगुरुदेवश्रीविजयमोहनसूरीश्वराणां 'वीरचन्दभाई' इत्याख्यपरमोपासकस्य गृहमागतवान्। दीक्षाग्रहणस्य शुभमुहूर्तप्रतीक्षायां मासंयावत् भाईचन्दकुमारस्य स्थैर्य तत्राऽऽसीत्।
नमानि तित्वं गुरुधर्मसूरिन्