________________
३८
महापुरुषः स्यादाहोस्वित् खलपुरुषः । प्राक्कृतानि कर्माणि सर्वजीवान् ध्रुवं पीडयन्ति । अतः 'हीरविजयसूरिरास ' इति कृतौ गुर्जरभाषायामेतादृशं स्पष्टं कथितमस्ति 'हीर कहे नर सुणो परम, भोगव्या विण नव छूटे करम...' इति । गुर्जरविरक्तिसज्झायमध्ये श्रीदानमुनिनाऽपि कथितम्- 'सुर-नर जस सेवा करे रे, त्रिभुवनपति विख्यात; ते पण कर्मे विडम्बीया रे, तो माणस केई मात...' इति । इतः कलिकालसर्वज्ञाः श्रीमहेमचन्द्राचार्या अपि त्रिषष्टिशलाकापुरुषचरित्रे ज्ञापयन्ति- 'प्राच्यं कर्माऽन्यथा कर्तुं यद्वाऽर्हन्तोऽपि नेशते' इति ।
सहनशीलाः सूरीश्वराः
यद्यपि तस्मिन् पीडासमये सामान्यसंसारिभ्यः साधनानिष्ठविरक्तजनानां मनः स्थितिर्नूनं सुन्दरतरा चोत्तमा च भवति । रुग्णावस्थामपि ते समाधिदायिनीं कर्मनिर्जराकारिणीं च कर्तुं निपुणाः सन्ति ।
स्वजीवितस्य प्रत्येकं समयं स्व-परकल्याणार्थं विनियोक्तृणां परमपुरुषार्थशालिनां पूज्यपादाब्जयुगदिवाकरगुरुवराणां जीवनेऽपि सकृदेष प्रसङ्ग आगतः । वैक्रमीये २०३४ तमे वर्षे कर्माणि तत्रभवत्सु घातकप्रहारं कृतवन्ति । पक्षाघातरूपः स प्रहारः । यद्यपि एते त्वासन् प्राग्वर्णितप्रसङ्गस्यारम्भे निर्दिष्टगुणत्रय्यामभिहितस्य सहनशीलतानामकस्य द्वितीयगुणस्यात्मसात्कारका गुरुवराः । अतः 'शक्तौ सहनम्' इत्युक्तिं दृष्टिपथेऽन्तरात्मनि च स्थिरीकृत्य तत्रभवन्तः प्रभुभक्तिप्रभृतिषु सदनुष्ठानेषु काहलं (अतीव) सुसमाहिताः बभूवुः ।
गुरुवराणां समस्तं दक्षिणा पक्षाघातग्रस्तं जातम्, तदनु दशमे दिने महत्त्वपूर्णं वृत्तं सञ्जातम् ।
एषु दिवसेषु तत्रभवतां सायन्तनं प्रतिक्रमणं प्रत्यहं पूज्यमुनिप्रवरश्रीसूर्योदयविजयेन कार्यते स्म । गुरुवराणां
नमामि नित्वं गुरुधर्मसूरि
१४९