SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ बमा परमसत्याय ३७ अस्ति महापुरुषाणां जीवनं 'स्' वर्णादारभ्यमानैस्त्रिभिर्दुर्लभैर्गुणैः समलङ्कृतम् । अमी सन्ति सादयस्ते त्रयो गुणा:(१) सत्त्वशीलता (२) सहनशीलता (३) संवेदनशीलता चेति । अनाविलचित्तानां पूज्यपाद्गुरुवराणां जीवनमपि आसीदनया गुणत्रय्या समलङ्कृतम् । तेषां त्रिभिर्जीवनप्रसङ्गैः क्रमशोऽवलोकयामो वयंतां ललितांगुणत्रयीम् । सत्त्वशीलता नाम स्थितिर्यदा कष्टदायिनी भवेत्तदानीमपि निजगृहीताऽऽराधनापथे- साधनापथे निश्चलं स्थातव्यम् । वैक्रमीयस्य २०३८ तमस्य संवत्सरस्येयं घटना पूज्यपादस्थितायाअद्भुतसत्त्वशीलताया दर्शनं कारयति। फाल्गुनश्वेतैकादश्या दिनम्। प्रतिष्ठाहेतोरासीन्मझगाँवजैनसङ्घमध्ये चतुर्भूमिके "प्रेमसागर भवने सपरिवारं गुरुवरस्थैर्यम् । रात्रौ नववादनवेला जाता। गुरुवरस्वास्थ्यं चाऽकस्माद् विकारापन्नं सञ्जातम् । शीघ्रं चिकित्सका आहूताः। निशायां ११.०० वादने सति वैद्यकैर्गुरुवरशिष्यवृन्दमुक्तम् - "गुरुवराणां स्वास्थ्यं चारु नास्ति, चिन्ताजनकमस्ति । अतस्ते सत्त्वरं चिकित्सालयं नेतव्याः। किन्तु.... अहो गुरुवराणां साधुत्वम् । तत्रभवन्तश्चिकित्सकानां श्रमणानां सङ्घनायकश्रावकानां चाऽऽग्रह दृढतयाऽवरुध्य कीदृशेष्वपि संयोगेषु उपाश्रयाद् रुग्णालयगमनं प्रतिषिद्धवन्त : । सत्त्वशीलताया जीवदृष्टान्ततुल्यगुरुवराणां चेतसि विचारोऽयं रममाण आसीद्द्यद् 'आयुषः क्षण एकोऽपि, वर्धतेन कदाचन।' अर्थाज्जीवनदीपपात्रादायुषस्तैलं रिक्तीभवेच्चेन्मरणं तदाऽनिवार्यम्। तर्हि यत्र मृत्यु: समाधिमयो भवेत् तत्प्रतिश्रयस्थानं कथं त्यक्तव्यम् ? नमामि नित्वं गुरुधर्मसूरिन्
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy