________________
मुनिः पद्मानन्दविजयाख्यः स शिष्य आमयेऽपि समाधि प्राप्नुयादिति शुभाऽऽशयात् शुभविचारभोजन-प्रदात्री हितशिक्षामपि प्रयच्छन्ति स्म।
शिष्याणां पुत्रवत् पालयित्रीमिमां गुरुमातरं दृष्ट्वा मत्स्मरणविषया भवन्ति पञ्चमगणधरा: श्रीसुधर्मस्वामिनः। राजगृहीनगर्या महाशासनप्रभावककार्याणां सम्भवः, तथाऽपि तां शासनप्रभावनां त्यक्त्वा निजनूतनशिष्यस्य चित्तसमाधिकृते समुदायेन सह विहर्तुं सज्जता वैदर्शिताऽऽसीत्।
अहो! एतादृश्या गुरुमातुर्योगोऽपि दुर्लभः, यन्मनसि शिष्याणामुभयथा चिन्ता भवेत्। अद्भुतत्रयोदशप्रार्थनागुम्फित 'श्रीजयवीयराय' सूत्रे प्रार्थनाऽन्यतमा दर्शिताऽऽस्ति "सुहगुरुजोगों' इति। मञ्जीवने सद्गुरुयोगो भवतु इतितभावार्थः।
महागुणा गुरवस्तन्नाम 'सद्गुरवः । स्व-परहिताऽकाक्षिणों गुरवस्तन्नाम 'सद्गुरवः । शिष्याणामुभयथा चिन्ताकर्तारो गुरवस्तन्नाम 'सद्गुरवः । एतादृशेषु नैकेष्वर्थेषु गुरुवरा आसन् 'सद्गुरवः'।
समाप्तौ सुगमस्य शोभनतरस्यैकसंस्कृत श्लोकस्य वार्ता - स कथयति गुरुमन्तरेण मोक्ष को यच्छेत ?. गुरुमन्तरेण सन्मार्गको यच्छेत?, गुरुमन्तरेण मूर्खत्वं कोऽपहरेत् ? गुरुंचान्तरेण सुर्खको यच्छेत् ? इति। अयं सश्लोक:
गुरु विना को नहि मुक्तिदाता, गुरुं विना को न पथप्रदाता। गुरुं विना को नहि जाझ्यहर्ता, गुरुं विना को नहि सौख्यकर्ता।।
सद्गुरोर्माहात्म्यं कीदृशमनन्यद् दर्शयति श्लोकोऽयम् ? वयमेतेषां सद्गुरूणांचरणकमले कोटिशो वन्दनपुष्पाणि समर्पयेमा
कानियाभूमि