________________
३६
गुरुवराणां कश्वित् शिष्यो दीक्षाग्रहणपश्चात् कायिकव्याधिग्रस्तो जातः । स्तोकं विहरेत् स सवेगं च प्राण्यात् । अन्ये श्रमणा यस्मिन् वयसि त्वरया विहरेयुः, तस्मिन् वयसि तस्य एतां स्थितिं निरीक्ष्य गुरुवरैर्योग्या उपचाराः प्रारब्धाः । किन्तु यथार्हं फलं न प्राप्तम्।
गुरुमाता वरदाश्री, भवाम्बुधौ करदाश्री
चिकित्सकैर्हृदयान्तः काचित् क्षतिर्निर्णीता । सर्वे चिकित्सका एवमुक्तवन्तः 'अस्य मुनेः शस्त्रक्रियां कृत्वा क्षतिग्रस्तस्याऽङ्गस्य परिवर्तनं कर्तव्यम्, यतः सुदीर्घजीवनं तस्य समस्यामुक्तं भवेदिति । यद्यपि, एषा शस्त्रक्रिया महाभयदा आसीत्। सा चिकित्सा तदानीं मुम्बई महानगरेऽपि क्वचिदेव भवति स्म । मुनिवरस्य कायोऽपि निर्बल इति भयस्याऽन्यत् कारणम् ।
लाभालाभं विमृश्य गुरुवरैर्मुनेः शस्त्रक्रियां कारयितुं निश्चितम्। आश्विनमासे मुम्बई महानगरस्य ख्यातिप्राप्ते 'बोम्बे होस्पिटल' इत्याख्यचिकित्सालये विघ्नप्रचुरेयं शस्त्रक्रिया कृता । मुनेः शुश्रूषायै गुरुवरैद्राशुश्रूषको श्रमणौ नियुक्तावास्ताम् । तथाऽपि शस्त्रक्रियादिने गुरुवरा निरन्तरं पञ्चदशघटिका यावत्तत्रोपस्थिता अभवन् । तदानीं वालकेश्वरनगरे महत्सु शासनप्रभावककार्येषु सत्सु तेषां निःसीमवात्सल्यनिधिगुरुवराणां हृदये शिष्याणां 'बाह्याभ्यन्तर' चिन्ताया: स्थानमग्रिमतरमासीत्, अत एव अन्यकार्याणि गौणीकृत्यैषा कार्यप्रधानता जाता। शस्त्रक्रिया प्रकोष्ठतो मुनि: स्वस्थरूपेण बहिरानीतः पश्वादेव गुरुवरा वालकेश्वरं प्रति विहृतवन्तः ।
शस्त्रक्रियापश्चात् मुनेः ५५ दिनानि यावत् चिकित्सालयवासोऽभवत् । तदन्तराले प्रत्येकतृतीये तुरीये वा दिनेऽतिकार्यव्यस्ततायां सत्यामपि गुरुवरा वालकेश्वरतः स्वयमागत्य रोगार्तशिष्यस्य शातापृच्छां कुर्वन्ति स्म। नैतावद्,
नमामि नित्वं गुरुधर्मसूरिम्
१४९