________________
जनबी जन्मभूमिश्च स्वर्गादपि गरीयसी
'दुष्मतीकारी माता-पितरौ स्वामी गुरुश्च लोकेस्मिन्' इति श्लोकपङ्क्त्या प्रशमरतिग्रन्थकारका भगवन्तः श्रीउमास्वातयो निर्दिशन्ति 'विश्वेऽस्मिंस्त्रयाणामुपकारो दुष्मतीकार्यः। (1) जन्मदातृपित्रोरुपकारः (2) अर्थदातृस्वामिन उपकारः (3) धर्मदातृगुरोरुपकारश्चेति।
बहुकष्टेन प्रत्युपकार्य उपकारो दुष्प्रतीकार्यः कथ्यते। इह प्रधानतः पित्रोरुपकारं विचिन्तयामः। पूजनीयेषु 45 आगमग्रन्थेषु अन्यतमश्रीस्थानाङ्गसूत्रेष्वपि एवमेवोक्तम्, अनन्तरं च प्रत्युपकारमार्गोऽपि दर्शितोऽस्ति तथाहि - 'पित्रोभक्तिधारकसन्तानः पित्रोर्दुमतीकार्योपकारार्णाद द्विधा मुक्ति प्राप्तुमर्हति।
(1) पितरौ जराऽवस्थायामधिकमधिकमुपास्य, तयोर्धर्मकार्येषु अधिकमधिकं साहाय्यं कृत्वा, तीर्थार्चनाञ्च कारयित्वास मातुः पितुश्चार्णादांशिकमुक्तिमाप्नुयात्।
(2) यदि च स स्वयं श्रामण्यमङ्गीकृत्य स्वपित्रोरपि धर्मबोधं दद्यात् प्रव्रज्यांच प्रदाय तयोरात्मकल्याणं कुर्यात्तर्हि स ऋणात् सर्वांशेनमुक्तिमुपलभेत' इति। निःसंशयम्, ऋणमुक्तिं सर्वाशेन लभते सा सन्ततिः सर्वाभ्य उत्तमैव स्याद् ।
प्रकृत्यैव दर्शनीयाः पूज्यपादयुगदिवाकरगुरुवरा अपि आसन्नेतादृशस्योत्तमपुत्रत्वस्य प्रापका गुरुवराः। अत: स्वदीक्षाजीवनस्य तृतीये वर्षे चतुर्मासे तत्रभवतां सांसारिकमाता सुखशातापृच्छार्थ राजनगरमुपगता तदानीं गुरुवरैस्तस्या अभ्यन्तरजीवने दृष्टिपातः कृतः। सदुपदेशेन माता प्रव्रज्याग्रहणार्थमुल्लसिता कृता। फलतः, वैक्रमाब्दे
नमामि नित्वं गुरुधर्मसूरिन