________________
A
प्रसन्नचित्तो बालो गतवान्। तदनु त्वयमुपक्रमः कानिचिद् दिनानि यावद् निरन्तरमचलत्। बालो गुरुवराणां पार्श्वे प्रत्यहं वन्दनार्थमागच्छेत् तत्प्रेरितो बालो प्रेम्णा श्लोकान् वदेत् । क्वचिचागतैः श्रमणोपासकैस्तस्मै पुरस्कारं दापयित्वा गुरुवरास्तस्याध्ययनमभिवादयेत्। कथनमनावश्यकमस्ति लघोरपि सुकृतस्यानुमोदनस्वभावाद् गुरुवरा बालहृदये न्यवसन्। तत बॉलस्यान्तः करणेऽधिकाध्ययनेच्छापि आविर्भूतेति ।
तस्यैव बालस्य गुरुवरैः सह द्वितीयोऽनुभवः ।
वैक्रमीयं २०३३ तमं वर्षम्। फाल्गुनशुक्लचर्तुदश्या दिनम्। मुम्बई महानगरतो निर्गतेन शत्रुञ्जयमहातीर्थपदयात्रासङ्घेन सह पूज्यगुरुवरा वटपद्र (वडोदरा) नगरमागताः । सायाने बहुशतैराराधकैः सह सामूहिकचातुमार्सिकप्रतिक्रमणार्थं गुरुवरा विराजमाना आसन् । अस्मिन्
प्रतिक्रमण उपस्थितेन तेन बालेनोच्चारशुद्धिसहितमतिचारसूत्रं कथितम् । सुकृतानुमोदननिधितुल्यैः पूज्यगुरुवरैरनुमोदना कृता - "पितरौ यदि सावधानौ भवेताम् तर्हि लघवोऽपि बाला उत्तमैधार्मिकसंस्कारैरभ्यासैश्व विकासं प्राप्नुवन्ति । बालोऽयं तस्य प्रशस्यतममुदाहरणमस्ति । अतः स्वीयबाला: पाठशालायामध्ययनार्थं नूनं प्रेषणीयाः । अस्य बालस्य च बहुमानेन ज्ञानभक्तिरपि कर्तव्या।" गुरुवराणां लघुप्रेरणया बालस्य कृते पारितोषिकाणां दृष्टिरेवाऽभवत् ।
इत्थं युगदिवाकरगुरुवरा गुणपुष्पैरेतादृशैः सर्वेषां कृते सुवासयुक्तजीवनारामस्य सर्जकाः कुशलोद्यानपाला आसन् । एतान् गुरुवरानच सानुनयं प्रार्थये "भो गुरुवराः । अस्मजीवनोद्यानमपि सुन्दरगुणपुष्पैः समलङ्कुरुतामिति ।
* अयं 'राजु' इति नामकः षड्वर्षीयबालकुमारः पूज्यपादयुग दिवाकरगुरुदेवानामाजी वनमन्तेवासिनां पूज्यपादप्रगुरुदेवाचार्यवर्य श्रीमद्विजयसूर्योदयसूरीश्वराणां सांसारिक भागिनेयस्तेषां दर्शनवन्दनार्थं दर्भावतीनगरतो वालकेश्वरमागत आसीत् संप्रति स बालो नाम युगदिवाकरगुरुदेवान् प्रतिस्वान्तेऽद्भुतभक्ति प्रीत्योर्धारका युगदिवाकरगुरूणां विषये सप्तशतपत्रीयविशाल 'युगदिवाकर' इत्याख्यग्रन्थसर्जकान्यानन्तोपकारिणोऽस्मद्पूज्यपाद्गुरुवरा आचार्यप्रवरश्रीमद्विजयराजरत्नसूरीश्वरमहाराजाः ।
...
wagen
139