________________
जीवबाराजस्वकुशलोधाबपालका:
चिन्तकैरुच्यते यदेकस्यापि सुकृतस्यानुमोदना यदि न कृता तदाऽपराणि नैकानि क्रियमाणानि सुकृतानि प्रागेवोदयादस्तङ्गतानि भवन्ति। ततः सुकृतानि स्वल्पान्यनल्पानि वा कीदृशान्यपि भवेयुस्तानि नूनमऽनुमोदनपयसाऽऽद्रीकर्तव्यानि। पूज्ययुगदिवाकरगुरुवरजीवनमासीदनेन गुणपुष्पेण सुवासितम्। लघ्वपि सुकृतं दृष्टं श्रुतं वा चेत्, तेऽनुमोदनांन कुर्यादिति वार्ताऽपि तत्कृतेऽशक्यप्राया। ततःपरं कथंनस्याविन्दुतुल्यमपितत्सुकृतम्?
वैक्रमे वर्षे २०३० तमे प्रवृत्तमेतद्वृत्तम् -
तदानीमासीन् मुम्बई-वालकेश्वरनगरे गुरुवरस्थैर्यम्। अत्रान्तरे कश्चिद् बालो वन्दनार्थमुपाश्रयमागतः । गुरुवरैस्सह तस्याऽयं प्रथमः परिचयः। तथापितस्मै तेषां प्रसन्नतामयंवदनमत्यरोचत्।
अनुवन्दनमुल्लसितहृदयो बाल: सुखशातां पृष्टवान्। गुरुवरैरपि सस्नेहं सस्मितं पृष्टम् - "धर्माभ्यास: कतिपयोऽभूत?"
"नवस्मरणंयावत्।"बाल: प्राह।
श्रुत्वेदं गुरुदेवैः कल्याणमन्दिरादिस्तोत्राणां कतिपया: श्लोका अङ्कसंख्यया पृष्टाः। बाल: श्लोकान् यथास्थितमुक्तवान्।
अतो गुरुवरा अतिप्रीणितवन्तः। पौषधशालामागतैः कतिपयैः श्रमणोपासकैर्बालस्य सन्मानं कारितमनुमोदनेन चाऽतिप्रोत्साहनमपिदत्तम्।
नमामि नित्वं गुरुधर्मसूरिन्