________________
युष्माभिरेतत्पुस्तकमेव कथं निर्दिष्टम् ? यतः गुरुदेव श्रीधर्मसूरीश्वराणां स्मरणीयानि नैकानि पुस्तकानि सन्ति।"
"गुरुवर! किं कथेयम् ?" स श्रावक उक्तवान्- "अहं पुस्तकमिदं सर्वप्रथममपठम्, ततोऽद्य यावदहमत्यन्ताकृष्टोऽस्मि तत्प्रति । सप्तदशकृत्व इदं पुस्तकं भया पठितम्। मुहुर्मुहुः पुनः पठनेऽपि मया तस्मान्नित्यं किञ्चिन्नवं नवं प्राप्तम् ।"
एकमेव पुस्तकम्.... सप्तदशकृत्वस्तत्पठनम्, तथाऽपि न लेशोऽलसः, अपि तु प्रभूतो हर्षः । कथं भवेदेवम् ? एतदर्थं किञ्चिदपि वक्तुमक्षमं जानामि स्वम् । परं, लेखारम्भे कथितयोराचार्यदेवयोः शब्दानामुपरि पतितदृष्टेर्मम मनोभूम्यामपि स्फुरति लघु शब्दपुष्पम् - 'गुरुवराणां लेखनशैली मधुरतमाऽऽसीत् । जिज्ञासुजनास्तन्मधुरताया आस्वादने भ्रमरायमाणा भवेयुरित्येतस्मिन्नाश्चर्यं किम् ?'
गुरुवराणां मधुरलेखिन्या अन्यदपि विपुलं साहित्यं लिखितम् । इतो लघुक्षेत्रसमास पञ्चमशतककर्मग्रन्थ षत्रिंशिकाचतुष्कप्रकरणादयः कठिना अभ्यासग्रन्था अपि तत्रभवद्भिः सम्पादिताः ।
सर्जनक्षेत्रे मङ्गलाचरणं रत्नप्रभाव्याख्यान्वित श्री अभिधानचिन्तामणिकोशग्रन्थसम्पादनेन गुरुवरैः श्रामण्यस्य पञ्चमे वर्षे कृतम् ।
स्वीया च सर्वोत्तमा कृतिः 6000 श्लोकमिता संस्कृतभाषामयी 'सुमङ्गलाटीका ' इति नाम्नी रचना तत्रभवद्भिर्दीक्षायाः केवले चतुर्दशे वर्षे कृता ।
यथा वर्षायां प्रतिदिनं नद्यां जलं वर्धते, तथा गुरुवराणामध्ययनं दिनं दिनं वर्धते स्म, किन्तु ज्ञानेन सह तेषां नम्रताऽपि वर्धते स्म ।
स्वनिर्मितसुमङ्गलामहाटीकाया अग्रिमश्लोकेषु गुरुवरैर्नम्रताद्योतकाः प्राज्याः शब्दाः प्रयुक्ताः सन्ति । यथा
'क्व बुद्धिलेशो मम बिन्दुतुल्यः, क्वेवं च शास्त्रं जलधीशमानम् । तथाऽपि गीतार्थगुरुप्रतापात् सुमङ्गलानावि सुसंस्थितोऽहम् ।।'
हृदयमिच्छति गुरुवरान्तर्गतविनम्रतया स्वजीवनमपि समलङ्कर्तुम्, मनोऽपि भवति मधुरायै तेषां लेखिन्यै भावपूर्णवन्दनाञ्जलिं समर्पयितुम्....।
गुरुवराणां च मधुरं जीवनं मधुरं प्रवचनं, मधुरं गमनं, मधुरं नमनं, मधुरं हसनं, मधुरं लेखनं, मधुरमक्षरं मधुरं समत्वं, मधुरं स्वरूपं, मधुरमौदार्यमित्यादि सर्वं मधुरं मधुरमनुभूय चान्तःकरण एवं मधुरं स्तुतिचरणस्मरणमपि प्रभवति 'मधुराधिपतेरखिलं मधुरम्' इति ।
wagen