________________
३४
'संस्कारनगरी' इति स्वरूपेण विख्यातस्य वटपद्र ( वडोदरा ) नगरीयस्य रावपुरा - कोठीपोळ - जैनसङ्घस्य जैनाचार्य श्रीमोहनसूरीश्वराख्यपौषधशालाया उद्घाटनप्रसङ्गः । तदानीं पूज्यपादयुगदिवाकरगुरुवराणां वाग्रसास्वादकाभ्यां द्वाभ्यामाचार्य भगवद्भ्यां ततः सप्तविंशतितमे वर्षेऽस्मत्पूज्यगुरुदेवेभ्यो लिखितमेवम्- "तेषां वाणी नूनं सङ्गीतमयाऽऽसीत्। एतादृशी मनोहारिणी कल्याणकारिणी च वाणी स्मृत्यां सदैवाभिनवा हरिता च स्यादेतस्मिन्नाश्वर्यं किम् ?" इति ।
गुरुवराणां प्रवचनमासीदेतादृग् विस्मयदम् । लेखनञ्चाऽऽसीत् माधुर्यपूर्णम् । तदा 'सुघोषा' 'जैनयुग' इति ख्यातनाम्नोर्जेनसामयिकपत्रयोर्गुरुवराणां श्रमण भगवानमहावीर' इति लेखमाला प्रकाशितवती । चातकनेत्राः परः सहस्रा जिज्ञासवस्तां प्रतीक्षन्ते स्म । पृष्ठतः पुस्तकं रूपं प्राप्य लेखावलिरियं नैकावृत्तीः प्राप्तवती । वर्षेभ्यः पश्चादपि तया लेखावल्या लोकहृदयेष्वनन्यं स्थानं लब्धम् । मुम्बईमहानगरसमीपस्थे भाईन्दरनगरे सञ्जात एकः प्रसङ्ग एतदर्थं स्मर्यते । 21
मधुराधिपतेरखिलं मधुरम्
युगदिवाकरगुरुवरजन्मशताब्दीवर्षम् (वि.सं. 2060 ) | भाईन्दरनगरे बावन जिनालयतीर्थेऽस्मच्चतुर्मासम् । एकदा तत्र हसमुखभाईनामकः कश्चिद् गृहस्थ आगतः । मम गुरुवरान् स पृष्टवान्- "गुरुदेव ! भवता श्रीधर्मसूरीश्वरैरालिखितं 'श्रमण भगवानमहावीर' इति पुस्तकं पठितम् ?”
गुरुवरैः सविनोदमुक्तम् - "पठितमेव न, अस्मिन् वर्षे अस्माभिस्तस्य पुनः प्रकाशनमपि कारितम्। परं
* पूज्यपादयुगदिवाकरगुरुवरजन्मशताब्दीप्रसगे भाईन्दर बावन जिनालयतीर्थान्तः प्रकाशितशतसप्तकपत्रीय भव्यपृथुलकायश्री युगदिवाकर' महाग्रन्थीये शुभेच्छासन्देशविभागे शब्दा इमे लिखिताः सन्ति । शब्दलेखका आचार्यदेवा आस्तां सागरसमुदायवर्तिनी पूज्यपादाचार्य भगवन्तौ श्रीमज्जिनचन्द्र हेमचन्द्रसागरसूरीश्वरौ ।
नमामि नित्यं गुरुधर्मसूरिन्
१३३