________________
वन्देऽहंगुणसागरं गुरुवरं श्रीधर्मसूरीश्वरम्
एषा घटना २०६० तमे वैक्रमीये वर्षे प्रवृत्ता। वि.सं. १९६० तमे वर्षे गुरुवराणां जन्म वढवाणग्रामे श्रावणमासे शुक्लपक्षीय एकादशीदिने सञ्जातम् । तत इदं गुरुवराणां जन्मशतकवर्षमासीत्। अत: प्राप्तपुण्यावसरैर्गुरुवराणां श्रमणश्रमणीवृन्दैः प्रस्तुतवर्षमनुलक्ष्य नैकेषु सङ्घषु विशिष्टा उत्सवा आयोजिताः। तेषु अन्यतममायोजनमस्मदीयैः परमगुरुदेवै: श्रीमद्विजयसूर्योदयसूरीश्वरैः कृतम्। पूज्यपादारविन्दयुगदिवाकरगुरुदेवविरचितानेकग्रन्थावलम्बि तदायोजनम्। तन्नाम 'अनावृतपुस्तकपरीक्षा' (=open bookexam इति आङ्गले)।
वर्षारम्भे युगदिवाकरगुरुवराणामस्मदीयपरमगुरुदेवैः सम्पादितस्य 'श्रीभगवतीसूत्रनां प्रवचनो' इत्याख्यलोकप्रियप्रवचनग्रन्थस्योपरि 'अनावृतपुस्तकपरीक्षा आयोजिता। पर:शतैः परीक्षार्थिभिरियं परीक्षा प्रदत्ता। अनेन ग्रन्थेन नैके परीक्षार्थिन: प्रमुदिता: सञ्जाताः। पत्रैश्च स्वप्रमोदोऽस्मदीयगुरुवरपावें तै: प्रेषितोऽपि। ग्रन्थवाचनप्रेरिता: कतिपये परीक्षार्थिनस्तु तपस्त्यागादिप्रतिज्ञाभि: स्वजीवनं समलङ्कृतवन्तः।
एतेषु पत्रेषु अन्यतमं प्रेरणाप्रदं मननीयं च पत्रं केनचिद् विप्रपण्डितेन प्रेषितम्। 'भगवतीसूत्रनां प्रवचनो' इति ग्रन्थगतां विशिष्टतां विद्वानयं प्रस्तुतवान् यथा - "अस्य ग्रन्थस्याध्ययनं मया कृतम्, पश्चात् तन्महापुरुषाणां साक्षात्प्रवचनं श्रुतमित्यनुभूतम्। तत्राऽपि ग्रन्थेऽवगता: 'आलु अनन्तकायिकम्' इति प्रमाणिता अद्यतनीयास्तर्कबद्धाश्च युक्ती: पठित्वा'आलुन भक्षयितव्यमित्यङ्गीकरोमि।"
संस्कारनगरीय: (वडोदरानगरीयः) संस्कारशीलो विद्वद्वर्य-बाह्मणोऽयम् ।तन्नाम 'सीताराम डोंगरे इति...
नमामि नित्वं गुरुधर्मसूरिन्