SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशेषेण तु वयं 'यथार्थमुत्तरं प्राप्स्यते' इति धारणापूर्वं न, अपि तु भवतः प्राज्ञता-परीक्षणार्थमेव प्रश्नमिमं कृतवन्तः।" इमं प्रसङ्ग ज्ञात्वा लघुचिन्तनं भवति- 'कि केवलकाचपरीक्षका मणिपरीक्षका भवन्ति खलु? अपि तु न, परन्तु अत्र तदपि शक्यमभूद गुरुवराणांप्रसादात्।' (२) वैक्रमीये पञ्चाधिकद्विसहस्र वर्षे (२००५) वटपद्र(वडोदरा)नगरे गुरुवराणां चतुर्मासम् । एतत्तुल्यो द्वितीयः प्रसङ्गस्तत्र सजातः। जैनशासनं मन्यत आत्मद्रव्यमखण्डमस्तीति। प्रत्येकात्मनोऽसंख्येयात्मप्रदेशाः सन्तिः, ते च परस्परं संलग्नाः सन्ति, विभवता न । इमं शास्त्रार्थमनुसृत्य प्रवचनसभायां केनचिज्जिज्ञासुना पृष्टम् - "गुरुवराः। श्रीतीर्थङ्करपरमात्मनां कल्याणकप्रसङ्गेषु सौधर्मेन्द्रः पृथ्वीलोके समागत्य पञ्चोत्तरवैक्रियदेहान् विरचयति, एते सर्वे कायाः प्रत्यक्षमेवपृथगनुभूयन्ते । ततः किं तेषामात्मप्रदेशेषु विभागोन भवतिखलु?" प्रश्नस्यास्य लौकिकोदाहरणपूर्वं सविस्तरं प्रत्युत्तरं गुरुवरैः सद्य एव कृतम् - "महानुभाव! त्वदीया जिज्ञासा युक्तिपूर्णाऽस्ति। तदा आत्मप्रदेशानां पञ्चविभागा नूनमनुभूयन्ते, परं ते स्थूलदृष्टयैव । तत्त्वदृष्ट्या तु वास्तविकता पृथग् भवति। परमार्थतः सौधर्मेन्द्रः स्वकीयमूलशरीरेण तदा स्वलॊके विद्यमान एवाऽस्ति। स्वमूलकायेनाऽऽत्मप्रदेशपङ्क्तयस्तनिर्मितैः पञ्चभिः कायैस्सह संलग्नाः सन्ति। कामं ताः पङ्क्तीदृष्टुं वयमक्षमाः स्याम, तथाऽपि परमार्थोऽयमेव ज्ञेयः।" तत्पश्चाद् गुरुवरैरुदाहरणमपि दत्तम् - "कस्मिंश्चिद विशालनगरे पर्यटनं कुर्मः, तदा मार्गमध्ये नैके विद्युत्स्तम्भा दृश्यन्ते । एते प्रत्येकस्तम्भा अस्माभिः परस्परसंयोगविहीना अवगम्यन्ते। अथ तु तेषामपि भूम्यन्तर्निहितैर्विद्युत्वाहकैः (underground wire) पारस्परिकसंयोगो भवत्येव । सर्वेषां च विद्युत्वाहकानां सम्पर्को विद्युदगृहेण (Power House) सह भवति। अत्र यथा तडित्वाहका न दश्यन्ते. तथाऽपि ते प्रत्येकस्तम्भैस्सह संयुक्ताः सन्ति, तथा शक्रस्य मूलकायस्था अदृश्यमाना अप्यात्मप्रदेशपङ्क्तयः सौधर्मेन्द्रस्य प्रत्येकोत्तरवैक्रियकायैः सहापि सम्बद्धा भवन्ति। अतः 'आत्मपदेशेषु विभागो भवति न वा?' इति शङ्कया अलम्। सङ्घातभेदप्रक्रिया तु शास्त्रैः पुद्गलद्रव्ये दर्शिता, आत्मद्रव्ये सघातभेदसम्भावना नाऽस्ति। रूपकेऽस्मिन्नात्मनो मूलशरीरं विद्युद्गृहतुल्यं वैदितव्यम्, उत्तरवैक्रियदेहा विद्युत्स्तम्भसमाना वेद्याः, आत्मप्रवेशपङ्क्तयश्च भूम्यन्तर्गतानां विद्युत्वाहकानां स्थाने ज्ञेया इत्युपनयः।" कीदृशमानन्दप्रद बोधप्रदं चोत्तरमस्तीदम्? एतादृशा आसंस्ते प्रत्युत्पन्नमतिगुरुवराः। वयं तेभ्यो भावतोऽञ्जलिं समर्पयेम यथा 'प्रत्युत्पन्नमति वन्दे, भवतां भवदुत्तरम्। भवतां प्रकृति वन्दे, वन्दे गुरुवरं परम्।।' समिति १२७
SR No.007774
Book TitleNamami Nityam Guru Dharmsurim
Original Sutra AuthorN/A
AuthorAkshayratnavijay
PublisherAkshayratnavijay
Publication Year
Total Pages215
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy