________________
प्रत्युत्यन्तमतयः
३२
पूज्ययुगदिवाकरगुरुवराः प्रत्युत्पन्नमतित्वस्य तलस्पर्शिपाण्डित्यस्य च धारका आसन्। तेषां पार्वे शास्त्रीयविषयेषु संशयिनः स्थानकवासि-श्वेताम्बर-दिगम्बरादिनानाविधसम्प्रदायानां विद्ववर्याः केवलं निरुत्तरा एवन, प्रत्युत निःशङ्का अपि भवन्ति स्म । वयं द्वाभ्यां प्रसङ्गाभ्यां तेषां विद्वत्तापरिचयं कुर्याम ।
पञ्चदशाधिकद्विसहस्रे (२०१५) वैक्रमे संवत्सरे पूनानगाँ गुरुवराणां चतुर्मासम्। गुरुवरैस्तत्र भगवतीआगमग्रन्थानुगं व्याख्यानं प्रभाते मध्याहने च द्विः क्रियते स्म । रात्र्यां च तात्त्विकवर्गः सम्बुध्यते स्म । एतस्मिन् श्वेताम्बरा इव दिगम्बराः श्रावका अप्यागच्छन्ति स्म । वाचनान्तरे च रोचकप्रश्नोत्तरावलिरपि भवति स्म। एकदा ते दिगम्बर श्रावकाः स्वसङ्घमध्ये गुरुवरज्ञानप्रशंसां कृतवन्तः। अतो दिगम्बरविद्वद्भिर्गुरुवराः कथिताः-"गुरुवराः! भवता सह पृथगुपविश्यवयं कतिपयसन्देहान् निराकर्तुमिच्छामः।"
गुरुवरैरनुज्ञाऽदीयत।
विद्वद्वर्तुलेन प्रश्नावलिः प्रारब्धा । सर्वा जिज्ञासा गहनशास्त्रीयविषयसम्बन्धिन्य आसन् । गुरुवरैस्तत्क्षणं तासां प्रत्युत्तराणि दत्तानि । सर्वे प्रश्नालेश्याविषयका उपयोगविषयकाचाऽऽसन्।
एतस्मिन्नेकप्रश्नोऽतिदुर्गम आगतः। निकटस्थाः अमणा अपि प्रस्नं श्रुत्वा स्तब्धाःसञ्जाताः । गुरुवरास्तु क्षणार्ध विचारसरसि निमग्नाः। किन्तु तत्क्षणमेव देवगुरुकृपया तादृशः क्षयोपशमः स्फुटितवान्, येन कदाऽपि न चिन्तितस्य तत्प्रश्नस्य ते शास्त्रमण्डितं तत्कर्तृणां च पूर्णसन्तोषदमुत्तरमयच्छन् । प्रश्नकारका अपि प्रीणितवन्तः । प्रश्नोत्तरविरामे गुरुवरप्रशस्तिं कृत्वा दिगम्बरविद्वद्भिर्मुक्तमनसा कथितम् - "नैकेभ्यो वर्षेभ्योऽस्माभिरयं प्रश्नोऽनेकेषां श्वेताम्बरदिगम्बरविदुषां पृष्टः। किन्तु केनाऽपि सन्तोषदायकमुत्तरं न प्राप्तम् । अत्रभवताऽद्य पूर्णसन्तोष-प्रदमुत्तरं प्रदत्तम्।
नमामि नित्यं गुरुधर्मसूरिम्