________________
गुरुदेवैः शास्त्रस्पर्शि प्रतिवचः प्रदत्तम् - "अस्माकं श्रमणधर्मोऽस्मिन् विषये प्रतिषेधको भवति । स कथयति 'एतादृशेषु विभावेषु कुतूहलमकर्तव्यम् , प्रत्युत दर्शन-ज्ञान-चारित्रादिसाधनास्वेव रन्तव्यमिति । अतोऽहं तत्र जिगमिषुर्नाऽस्मि।"
अमीभिरुत्साहिभिर्गुरुवरा मुहर्मुहुर्विज्ञप्ता:- "गुरुदेव । भवान् सकृदागच्छतु । नेत्रपटलाये तां घटनामानयतु । कदाचिन्मिथ्यावार्ता भविष्यति चेत्तनिराकरणमपि प्राप्स्यते ।"
अत्याग्रहवशाद् गुरुवरा उक्तवन्तः - "अशेषवाता ज्ञात्वा प्रत्यागन्तव्यम्" इति ।
अमीश्रावका: सर्वंपर्यालोच्य विज्ञापितवन्त: - "गुरुदेव! तस्या देहे पादरदेवी दिनोद्गते कदाऽपि नाऽऽयाति, केवलं निशायामेवाऽऽयाति। तन्निरीक्षणायपरीक्षणाय चभवतातगृहे यामिकायामेवाऽऽगन्तव्यम्" इति।
उपाश्रयात् तद्गृहं केवलं द्विशतानि पदान्येव दूरमासीत् । परं, शास्त्राचारसमर्पितगुरुदेवकृते यामवत्यां तत्र गमनं सर्वथाऽशक्यमासीत् । अतस्तत्रभवन्तः स्पष्टं प्रतिषेधं कृतवन्तः - "श्रमणधर्मानुसारमस्माभी रात्र्यां सामान्यत: शतेभ्य: क्रमणेभ्यो बहिर्गमन नोचितम् । अत इमां घटनां निरीक्षितुं परीक्षितुं वा वयं तत्र कथमपिनाऽऽगमिष्यामः।।"
इदं श्रुत्वाऽमी उत्साहशीला जना किञ्चिदपि अनुक्त्वा ततोऽपलायन्त। परं, ते प्राग्गमनादेभ्यः शास्त्राचारप्रतिबद्धेभ्यो महापुरुषेभ्योऽन्त:करणेन शतशोऽवन्दत।
अधुना स्तोकसमयपूर्व मम दृष्टिपथि सुष्ठ विचार आगतः, स प्रेरयति स्म- 'जीवनयात्रायां मनो नित्यं दृढं रक्षितव्यं, इदयं च श्लक्ष्णम...।
अन्त:करणं कारुण्यविकासेन कोमलीकर्तव्यमिति वार्ता तु मया सुविचारदर्शनादेव ज्ञाता । परं, मनः कथं दृढीकर्तव्यमिति त्वनेन प्रसङ्गस्मरणेन ज्ञायते । प्रसङ्गोऽयं ज्ञापयति - 'मनो दृढीकर्तव्यमा - चारपालने इति।
गुरुवराणामेतादृशान् जीवनप्रसङ्गान् स्मरामि, तदानीं कविश्रीभवभूतिना (श्रीकण्ठेन) उक्ताया अस्या :श्लोकपङ्क्तेः स्मरण भवतिसहजयद्
वज़ादपि कठोराणि, मृदूनि कुसुमादपि। महापुरुषचेतांसि, को नु विज्ञातुमर्हति।।