________________
साध्वाचारसधिष्ठा:सूस्विराः
आत्मनिन्दाद्वात्रिंशिकायां साधकजनस्य कृते चत्वारः पदार्था उक्तास्तेनूनमनुप्रेक्षणीया: सन्ति
हित्वा स्वदेहेऽपि ममत्वबुद्धि,
श्रद्धापवित्रीकृतसद्विवेकः । मुक्तान्यसङ्गः समशत्रुमित्रः;
स्वामिन् ! कदा संयममातनिष्ये ।। भावार्थोऽयम् - साधकजनैरेभिश्चतुर्मि: पदार्थ: स्वजीवनं नूनमलङ्कर्तव्यम् - (१) देहं प्रति ममत्वबुद्धित्यागः (२) श्रद्धानिर्मलो विवेक: (३) विभावसङ्गानां विसर्जनम् (४) शत्रुमित्रयोः समभावः।
पूज्यपाद्गुरुवरा अपि महान्त: साधकपुरुषा आसन्। अतस्तेषु इमे चत्वारोऽपि पदार्था आत्मसात् भवेयुरिति सहजम् । प्रस्तुतप्रसङ्गे चतुर्यु पदार्थेषु तेषांजीवने सुचरितं विवेकं वयमवलोकयामः।
वैक्रमं २००३ तमवर्षम् । सच्चरितपूज्यपाद्गुरुवराणां प्रभावकं चतुर्मासं तदानीं मोरबीनगर आसीत् । तत्रत्यजिनालयस्य प्रतिमापूजाकारको (पलासवा - कच्छ - वागडयामीय:) 'डाह्याभाई इत्याख्यो वैतनिक: श्रावकगृहस्थ आसीत्। तस्य धर्मचारिण्या देहे पादरदेवीदासोपवतीति बही लोकश्रुतिस्तदानीं ग्रामे प्रस्ता। दुःखमाज: कुतूहलिन जनास्तस्य समीपं गत्वा नेकविधप्रश्नान् पृच्छन्ति स्माअसौ गृहिणी पादरदेवीवत् तेषां प्रश्नानामुत्तराण्यपि यथाकथञ्चिद् यच्छतिस्म। जनप्रवादोऽयं समग्रनगरे प्रसृतः।
अत्रान्तरे कतिपया उत्साहिन: (?)जना एकदा उपाश्रये गुरुवरसमीपमागत्य कथितवन्त:-"गुरुदेव !दर्शनीयं वृत्तमेतद् । सकृद् भवताऽपि तत्राऽगन्तव्यम्" इति ।
| नमामि नित्यं भगुरुधर्मसूरिम्