________________
जैनतर्कभाषा। ६९. कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः १, इति चेदुच्यते-सन्मात्र. गोचरात्संग्रहात्तावन्नैगमो बहुविषयो भावाभावभूमिकत्वात् । सद्विशेषप्रकाशकाध्यवहारतः संग्रहः समस्तसत्समृहोपदर्शकत्वादहुविषयः । वर्तमानविषयावलम्बिन ऋजुत्रा
त्कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः । कालादिभेदेन भिन्नार्थोपदेशका5 च्छब्दात्तद्विपरीतवेदक ऋजुभूत्रो बहुविषयः । न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता
शब्दस्य, किन्तु भावघटस्यापि सद्भावासद्भावादिनाऽर्पितस्य स्याद् घटः स्यादघट इत्यादिभङ्गपरिकरितस्य तेनाभ्युपगमात् तस्य सूत्राद् विशेषिततरत्वोपदेशात् । यद्यपीदृशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते, तथापि ऋजुत्रकृतेतद
भ्युपगमापेक्षयाऽन्यतरभङ्गेन विशेषितप्रतिपत्तिरत्रादुष्टेत्यदोष इति वदन्ति । प्रतिपर्याय 10 शब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विषया(द्विपर्यया)नुयायित्वादहुविषयः। प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढः तदन्यथार्थस्थापकत्वादहुविषयः ।
१०. नर्यवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तमङ्गीमनुगच्छति, विकलादेशत्वात् , परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् ।
[२. नयामासानां निरूपणम् ।] 15११. अथ नयामासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः ।
पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः। धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धि गमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषानिराचक्षाणः संग्रहाभासः यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । अपार
मार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः, यथा चार्वाकदर्शनम्, चार्वाको हि 20 प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापह्नतेऽविचारितरमणीयं
भूतचतुष्टयप्रविभागमानं तु स्थूललोकन्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुत्रामासः, यथा ताथागतं मतं । कोलादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः
शब्दा भिन्नमेवार्थमभिदधति, भिन्नकालशब्दत्वात्ताकसिद्धान्यशब्दवदिति । पर्याय25 ध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर
इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात् , करिकुरङ्गशब्दवदिति । क्रिया
1. The idea is that the non. Jaina systems of philosophy are also partly true, but they are false inasinuch as they overlook each other Cf. Gommatasaira, Karinakanda,805.
परमनया वयण मिच्छ खल होई सवहा बघणा । जेणाण पुण बयगं सम्म ख कहंचिपणादो।