________________
●
जैनतर्क भाषा ।
गमत्पूर्वभद्रपदा मुहूर्तात्पूर्वम् उत्तरभद्रपदोद्गमानवगमात् । नास्त्यत्र सम्यग्ज्ञानम्, सम्यग्दर्शनानुपलब्धेरिति । सोऽयमनेकविधोऽन्यथानुपपश्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः ।
१८
[ २०. हेत्वाभासनिरूपणम् । ]
९५६. स त्रेधा-असिद्धविरुद्धानैकान्तिकभेदात् । तत्राप्रतीयमानस्वरूपो हेतुर5 सिद्धेः । स्वरूपाप्रतीतिश्वाज्ञानात्सन्देहाद्विपर्ययाद्वा । स द्विविधः - उभयासिद्धोऽन्यतरासिद्धश्व । आद्यो यथा शब्दः परिणामी चाक्षुषत्वादिति । द्वितीयो यथा अचेतनास्तरवः, विज्ञानेन्द्रियायुर्निरोधलक्षण मरणरहितत्वात्, अचेतनाः सुखादयः उत्पत्तिमत्वादिति वा ।
५७. नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति, तथाहि परेणासिद्ध इत्युद्भाविते 10 यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथाचक्षीत तदा प्रमाणस्यापक्षपातित्वादुभयोरपि सिद्धः । अथ यावन्न परं प्रति प्रमाणेन प्रसाध्यते तावत्तं प्रत्यसिद्ध इति चेत्; गौणं तर्ह्यसिद्धत्वम्, न हि रत्नादिपदार्थस्तस्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतया तदाभासः । किञ्च, अन्यतरासिद्धो यद । हेत्वाभासस्तदा वादी निगृहीतः स्यात् न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । 15 नापि हेतुसमर्थनं पश्चाद्युक्तम्, निग्रहान्तत्वाद्वादस्येति । अत्रोच्यते यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नानुमन्यते, तदान्यतरा सिद्धत्वेनैव निगृह्यते । तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावाने ( इत्येतावतै) वोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम्, यथा साङ्ख्यस्य जैनं प्रति ' अचेतनाः सुखादय उत्पत्ति20 मवात् घटवत्' इति ।
५८. साध्यविपरीत व्याप्तो विरुद्धः । यथा अपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति ।
$५९. यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । स द्वेधानिर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आद्यो यथा नित्यः शब्दः प्रमेयत्वात् । अत्र हि 25 प्रमेयत्वस्य वृत्तिर्नित्ये व्योमादौ सपक्ष इव विपक्षेऽनित्ये घटादावपि निश्चिता । द्वितीयो यथा अभिमतः सर्वज्ञो न भवति वक्तृत्वादिति । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञे संदिग्ध - वृत्तिकम्, सर्वज्ञः किं वक्ताऽऽहोस्विनेति सन्देहात् । एवं स श्यामो मित्रापुत्रत्वादित्याद्यप्युदाहार्यम् ।
६ ६०. अकिञ्चित्कराख्यश्चतुर्थोऽपि हेत्वाभासमेदो धर्म भूषणेनोदाहृतो न श्रद्धेयः ।