________________
जैनतर्कभाषा। गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन, आधारविशेषनिष्ठतया साध्या (साध्यसिद्धे)रनुमानप्रयोजनत्वात् । अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् ।
४२. धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिद्विकल्पात् क्वचित्प्रमाण विकल्पा5 भ्याम् । तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चित प्रामाण्याप्रामाण्य प्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र प्रमाणसिद्धो धर्मी यथा धूमवच्चादग्निमवे साध्ये पर्वतः, स खलु प्रत्यक्षेणानुभूयते । विकल्पसिद्धो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासम्भवद्भाधकप्रमाण
वादित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नास्तीति नास्तित्वे साध्ये खरवि10 पाणम् । अत्र हि सर्वज्ञखरविपाणे अस्तित्वनास्तित्वसिद्धिभ्यां प्राग विकल्पसिद्धे । उभयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः, स हि वर्तमान(न:) प्रत्यक्ष गम्यः, भूतो भविष्यश्च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोधर्मिणोः साध्ये कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव
साध्यत्वमिति नियमः । तदुक्तम्-"विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये" 15 [ परी० ३. २३ ] इति ।
६४३. अत्र बौद्धः सत्तामात्रस्यानभीप्सितत्वाद्विशिष्टसत्तासाधने वानन्वयाद्विकल्पसिद्धे धर्मिणि न सत्ता साध्येत्याह; तदसत् ; इत्थं सति प्रकृतानुमानस्यापि भङ्गप्रसङ्गात् , वह्निमात्रस्यानभीप्सितत्वाद्विशिष्टबढेश्वानन्वयादिति । अथ तत्र सत्तायां
साध्यायां तद्धेतुः-भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? । आधेऽसिद्धिः, 20 असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधाभा(विरोधोऽभा)वधर्मस्य भावे क्वचिदप्यसम्भवात् , तर कम
"नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ? ॥"
[प्रमाणवा० १. १९२] 25 इति चेत्, न; इत्थं वह्निमद्धर्मत्वादिविकल्पैधूमेन वह्वयनुमानस्याप्युच्छेदापत्तेः ।
४४. विकल्पस्याप्रमाणत्वाद्विकल्पसिद्धोधर्मी नास्त्येवेति नैयायिकः । तस्येत्धंवचनस्यैवानुपपत्तेस्तूष्णीम्भावापत्तिः, विकल्पसिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति ।
६४५. इदं क्यधेयम्-विकल्पसिद्धस्य धर्मिणो नाखण्डस्यैव भानमसत्ख्यातिप्रसशादिति, शब्दादेविशिष्टस्य तस्य [भा]नाम्युपगमे विशेषणस्य संशयेऽभावनिश्चये वा