________________
5
जैनतर्क भाषा ।
६२८. अत्राह भाट्टः- नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव, गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात्, तदुक्तम्
१०
" तस्मात् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १ ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥ २ ॥ "
[ श्लोकवा० उप० श्लो० ३७-३८ ] इति; तन; दृष्टस्य सादृश्य विशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो गवयः' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो 10 महिषः' इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके प्रमाणसङ्ख्याव्याघातप्रसङ्गात् ।
६२९. एतेन -'गोसदृशो गवयः' इत्यतिदेशवाक्यार्थज्ञानकरणकं सादृश्य विशिष्टपिण्डदर्शनव्यापारकम् 'अयं गवयशब्दवाच्यः' इति सञ्ज्ञासझिसम्बन्धप्रतिपत्तिरूपमुपमानम् - इति नैयायिकमतमप्यपहस्तितं भवति । अनुभूतव्यक्तौ गवयपदवाच्यत्वसङ्कलनात्मकस्यास्य प्रत्यभिज्ञानत्वानतिक्रमात् प्रत्यभिज्ञानावरण कर्मक्षयोपशम विशेषेण 15 यद्धर्मावच्छेदेनातिदेशवाक्यान्यधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपत्तेः । अत एव "पयोम्बुभेदी हंसः स्यात्" इत्यादिवाक्यार्थज्ञानवतां पयोऽम्बुभेदित्वादिविशिष्टव्यक्तिदर्शने सति 'अयं हंसपदवाच्यः' इत्यादिप्रतीतिर्जायमानोपपद्यते । यदि च 'अयं गवयपदवाच्यः' इति प्रतीत्यर्थं प्रत्यभिज्ञातिरिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शना हितसंस्कारस्य दिल्वादिदर्शनात् 'अतस्तत् सूक्ष्मम्' इत्यादिप्रतीत्यर्थं 20 प्रमाणान्तरमन्वेषणीयं स्यात् । मानसत्वे चासामुपमानस्यापि मानसत्वप्रसङ्गात् । 'प्रत्यभिजानामि' इति प्रतीत्या प्रत्यभिज्ञानत्वमेवाभ्युपेयमिति दिक् ।
[ १४. तर्कस्य निरूपणम् । ]
$ ३०. सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊहस्तर्कः, यथा 'यात्रान् कश्विद्धमः स सर्वो वह्नौ सत्येव भवति, वहिं बिना वा न भवति' 'घटशब्द25 मात्र घटस्य वाचकम् ' 'घटमात्रं घटशब्दवाच्यम्' इत्यादि । तथाहि स्वरूपप्रयुक्ताऽव्यभि चारलक्षणायां व्याप्तौ भूयोदर्शनसहितान्वयव्यतिरेकसहकारेणापि प्रत्यक्षस्य तावदविपयत्वादेवाप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्रह इति साध्यसाधनदर्शनस्मरणप्रत्यभिज्ञानोपज नितस्तर्क एव तत्प्रतीतिमाधातुमलम् ।
३१. अथ स्वव्यापकसाध्य सामानाधिकरण्यलक्षणाया व्याप्तेर्योग्यत्वाद् भूयोदर्श30 नव्यभिचारादर्शन सहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्तु, सकलसाध्यसाधनव्यक्त्युपसंहारस्यापि सामान्यलक्षण प्रत्यासच्या सम्भवादिति चेत्; न; 'तर्कयामि' इत्यनुभवसिद्धेन