________________
38
EXTRACTS FROM MANUSCRIPTS
No. 546. Ashtasahasrivivaranam, by YASOVIJAYA (Enceitविवरणम्-यशोविजयः]. Begins:
ऐंद्रमहः प्रणिधाय न्यायविशारदयतिर्यशोविजयः। विषमामष्टसहस्रीमष्टसहरुया विवेचयति ॥ १ ॥ सिताम्बरशिरोमणिविदितचारुचिन्तामणिविधाय हृदि रुस्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छलबलतर्कवर्णोदकछटाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ २॥ स्याद्वादार्थः क्वापि कस्यापि शास्त्रे यः स्यात्कश्चिद्दष्टिवादार्णवोत्थः । तस्याख्याने भारती सस्पृहा मे भक्तिव्यक्ते ग्रहोऽणौ पृथौ वा ॥३॥ अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः स्याद्वादस्यानुयोगे कति कति न पृथक् संप्रदाया बुधानाम् । शक्यः स्वोत्प्रेक्षितार्थररुचिविषयतां तत्र नैकोऽपि नेतुं जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ ४ ॥ समन्तभद्रोऽत्र हि कारिकाणां कर्ता तु वक्ता त्वकलंकदेवः ।
व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥५॥ श्रेप इति अलंकरणे इत्यत्रन्वयि । श्रीवर्द्धमानस्येति ॥ Ends:
ज्ञानेन्यहेतुश्च निजप्रसादात् ॥ इति श्रीमदकबरसुरत्राणप्रदत्तजगद्गुरुविरुदधारकभट्टारकश्रीहीरविजयसू रीश्वरशिष्यमुखमहोपाध्यायश्रीकल्याणविजययगणिशिष्यावतंसपण्डितश्रीलाभविजयशिष्याओसरपण्डितश्रीजीतविजयगणिसतीर्थ्यालंकारपण्डित श्रीनयवि. जयगणिचञ्चरीकचरणकमलेनपण्डितश्रीपद्मविजयगणिसहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्रीविवरणे दशमः परिच्छेदः॥१०॥