________________
26
EXTRACTS FROM MANUSCRIPTS
देशनातिशयाबोधीकृतश्रीमदकब्बराः । षाण्मासिकामार्यकरमोचनादिविधायकाः ॥ २ ॥ अभूवन् भवनोद्भासियशसः प्रशमाब्धयः । श्रीहीरविजयाह्वानसूरयो गुणभूरयः ॥ ३ ॥ तत्पकमलारामविभासनविभाकराः। दिल्लीपतिसभावाप्तवादिवादजयप्रथाः ॥ ४ ॥
औदार्यधैर्यगाम्मीर्याद्यनेकगुणभूमयः । श्रीमद्विजयसेनाख्यसूरयः सन्ति संप्रति ॥ ५॥ तत्पट्टहाटकक्ष्माभूमिकल्पद्रुमोपमाः । यौवराज्यपदप्रष्ठाः प्रहृष्टवदनाम्बुजाः ॥ ६ ॥ श्रीमद्विजयदेवाहसरयः सुरसरयः । इव प्रज्ञाप्रकर्षेण जयंति जगतीतले ॥ ७ ॥ एषां श्रीमरीणां प्रसादमासाद्य विगतदोषाणाम् । श्रीमत्सलेमसाह राज्ये शुभविजयमेधावी ॥ ८ ॥ श्रीहीर विजयसूरीश्वरचरणाम्भोजसेवनप्रवणः । रसरसरसशशलक्ष्मप्रमिते श्रीविक्रमाद्वर्षे ॥ ९॥ . . श्रीकाव्यकल्पलतिकावृत्तिमकरंदनामधेयेन । श्रीविजयदेवसूरीश्वरनिर्देशादहमकार्षम् ॥१०॥ श्रीमन्तो वाचकश्रेष्ठाः कल्याणविजयाभिधाः। जयंति जगतां पूज्याः सुधर्मस्वामिसंनिभाः॥ ११ ॥ तत्पादपद्मरोलम्बसंनिभर्वाचकोत्तमैः । श्रीधर्मविजयाह्वानैः शोधिता नन्दताच्चिरम् ॥ १२ ॥ ततश्च पण्डितोत्तंसमेरुविजयकोविदाः । तच्छिष्यैः शोधिता प्राज्ञलावण्यविजयाभिधैः ॥ १३ ॥ यत्किंचिद्भवति vणं राभस्यादिवशादिह । प्रेक्ष्या चक्षुष्मतां मुख्यैः शोध्यं तदुपकारिभिः ॥ १४ ॥