SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 214 EXTRACTS FROM MANUSCRIPTS प्रवचनरथस्थितो यः श्रुतदिव्यास्त्रः सुशीलसन्नाहः । एकोपि किल रिपुचमू जित्वाभूद्वनविख्यातः ॥ ४४ ॥ येषां पाणितलं सरोजविमलं सत्पुण्यगन्धाकुलं । तेनात्तं किल गन्धचूर्णमभवन्माहात्म्यसौरभ्यभाक् । क्षिप्तं मण्डलिकेन्द्रमौलिमाभि यत् सम्यत्कसंघेशताप्रस्तावे किमु वर्ण्यमत्र भुवनान्यद्यापि तद्वासयेत् ॥ ४६॥ अकृत स नवजीर्णचैत्यकृत्यं चितिकोशं बहुदानधर्मशालाः। मुनिनगमनु १४७७ वत्सरे सुयात्रां व्यवहरमण्डलिकश्च येषु भक्तः ॥४६॥ श्रीमान्मेलिगदेवरभ्य नि] हरिराजश्चेति तद्बान्धवौ येषां वाक्यरसायनोजितगुणौ तद्बाहुदण्डाविव । जातौ तद्वदनेकपुण्यनिपुणावन्येऽपि सुश्रावकाः साभाभीममुखाः सुकृत्य करणैः संपन्नलक्ष्मीफलाः॥४७॥ श्रीदेवरत्नमरिप्रवरास्तत्स्थापिता गुरुगुणाढ्याः। गुरुसेविनो जयन्ति प्रथितानेकोत्तरग्रन्थाः ॥ ४८ ॥ तेषां सतीर्थ्य एषां बिभ्रन् शिष्यत्वमस्ति पण्डितकः । नामार्थशीलसिंहो यो भद्रं वादिनं जितवान् ॥ ४९ ॥ तेनोदधिनिधिवेदेन्दु १४९४ मिते माधबोज्ज्वलचतुर्थ्याम् । रविवारे रचितमिदं श्रीचन्द्रचरित्रमतिरुचिरम् ॥ ६० ।। एतद्रचनापुण्यात् स्तात् सुलभं कर्तृभव्यजीवानाम् । बोधि च सुवाच्यमानं विबुधैरिदमिह रिरञ्जयतु ॥ ११ ॥ श्रीशीलसिंहपण्डितशिष्येण कृता च शीलहंसेन । जितगर्वस्वकगुरुगणभक्त्या विपुला प्रशस्तिश्रीः ॥ १२ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy