________________
196.
EXTRACTS FROM MANUSCRIPTS
ये तस्मिन्नपि नीललोहितपुरे संसत्सु संख्यावतां श्रीमद्धिमदाख्ययांखिलविदो भूतार्थया विश्रुताः । यत्पादाम्बुजदर्शनादमलधीनिस्तीर्णमोहार्णवो निस्वैगुण्यसुनिष्ठितश्च सततं तेभ्यो गुरुभ्यो नमः ॥ ४ ॥ यस्मिन्नस्तगतिः समस्तकरणग्रामो यतश्चेष्टते स्वप्नो जागरणं सुषुप्तिरिति वै यत्साक्ष्यतः सिध्यति । यस्मात्सर्वमनन्यदेतदुदितं यत्सर्वतोऽन्यन्मतं शेषाशेषकथापथातिगमथालम्बे परं तन्महः ॥ ५ ।। जीवाख्या प्रकृतिः परा निगदिता यस्यापरा चाष्टधा खं वायुलनो जलं क्षितिरहंकारो मनो धीरिति । यो वेद्यो निगमैः क्षराक्षरपरो वेदान्तकृद्वेद वित्तस्य श्रीपुरुषोत्तमस्य करुणामालोचयामोऽनिशम् ॥ ६ ॥ इति मिश्रजगन्नाथकृतच्छन्दःपीयूषे वृत्तनिरूपणश्चतुर्थोऽध्यायः ॥ ४ ॥
समाप्तोयं ग्रन्थः ॥ संवत् १८४९ कार्तिकमासे शुक्लपक्षे सप्तम्यां तिथी लिपीकृतम् ॥
No. 461. A commentary on the Vrittaratnakara, by SRIKANTHA [वृत्तरत्नाकरस्य वृत्तिः-श्रीकण्ठः]. ___Begins: देहावलम्बितव्यालं नत्वा मुरगणस्तुतम् । गणेशं क्रियते वत्तिवृत्तरत्नाकराश्रया ॥ १ ॥
Ends:
इदानी वृत्तिकारो वृत्तिस्वरूपयुक्त आत्मनो नाम कथयति ।।