________________
194 EXTRACTS FROM MANUSCRIPTS, इति छन्दःकौस्तुभे मात्राप्रस्तारो नाम नवमी प्रभा ॥ ९॥ श्रीराधादामोदरशिष्यो विद्याभूषणो नाम्ना । छन्दःकौस्तुभशास्त्रे भाष्य मिदं संप्रति व्यदधात् ॥ ___ इति श्रीविद्याभूषणविरचिते छन्द कौस्तुभभाष्ये मात्रामस्ताराविवरणं नवमी प्रभा ॥ ९ ॥ संवत् १८३५ शाके १७०० मार्गशीर्ष १४।३० शुक्रवासरे लिखितम् ॥ ॥
No. 450. Chhandahpiyusha, by JAGANNATHA [ छन्द पीयप:जगन्नाथः]
Begins : न्यायव्याकरणादिशास्त्रमखिलं संक्षुण्णमेवास्ति हि प्रायः प्राक्तनन्तनैः सुकृतिभिश्छन्दस्तु नैवेत्यतः । श्रीकण्ठस्मरणादवाप्य सुमतिं प्रीत्यै मया धीमतां सत्सूत्रं गुरु तत्कृतं लघु पुनस्तस्याथ सारं ब्रुवे ।। १ ।। सालंकारगणं विदोषमपि यच्छब्दार्थयुग्मं बुधास्तकाव्यं यशआद्यनेकफलकं कार्य मतं धीमताम् । छन्दःशास्त्रनिबन्धना खलु भवेत्तत्रोपयुक्ता यति*छन्दोभङ्गविहीनवाक्यरचनानेकप्रकारप्रथा ॥ २ ॥ सूत्रं संग्रहवाक्यमात्रमिह वै कर्तुं न कः शनुयातस्मिल्लाघवतोऽनुवृत्तिरचना स्पष्टा परं कौशलम् । मात्सर्य परिहाय तत्सुमतिभिनिर्दिष्टमत्रादरात्तच्चाप्यन्तरनुप्रविश्य विपुलस्यार्थस्य यद्वर्णनम् ॥ ३ ॥ शुद्धस्वानुभवप्रसिद्ध विषयेऽप्येतन्मुनि ब्रवीदेतद्वै मनुरब्रवीदिति जडाः श्रद्धानिबद्धवाग्रहाः ।