________________
PURCHASED FOR GOVERNMENT.
गुहमपि विधिपुत्र सिद्धयेऽहस्करादीन्गगनगमनवर्यान्बुद्धिवृद्ध्यै समीडे ॥ १ ॥ कृपा यदीया शरणागतानामुन्मूलिनी जाड्यमहाद्रुमस्य । सुदुस्तरेऽस्मिन्भवसागरे नौर्नमोस्तु तेभ्यः सततं गुरुभ्यः ॥ २ ॥ नानाविधग्रंथगतं हि सारमेकत्र कृत्वा तिलको ग्रहाणाम् । मखस्य लोकोपकृतिं विधातुं विरच्यतेऽयं कविमाधवेन || ३ ||
Ends :
आसीदाचार्यवंशे धरणिसुरवरः श्रीभरद्वाजगोत्रे कृष्णाचार्यः प्रसिद्धः शिवभजनरतो विश्वमित्रः पवित्रः । तत्पुत्रो माधवाख्यः कृतिकृतविविधग्रंथसारं गृहीत्वा चक्रे लोकोपकृत्यै ग्रहमखतिलकं सर्वसारं सुबोधम् ॥ १ ॥
इति श्रीमाधवाचार्यविरचितो ग्रहमखतिलकः संपूर्णः ॥
No. 109. Danapanjika, by SURYAKARASARMA [ दानपञ्जिकासूर्यकरशर्मा ].
Begins:
नीवीबन्धविधूननोद्यतकरो राधारतेरिच्छया कृष्णस्तत्क्षणमागतामभिमुख दृष्ट्वा यशोदां नुदन् । हे मातर्निजुगोप गोपवनिता मत्कन्दुकं वाससीत्येवं व्याजमुदीरयन्हरतु वः पापानि धूर्त्तक्रियः ॥ १ ॥ द्रोणवंशसमुत्पन्नो देवसिंहतनूद्भवः । धर्मकर्मरतः श्रीमान् नरराजो विराजते ॥ २ ॥ श्रीमता नरराजेन सर्वपापप्रणाशिनी ।
177
क्रियते दानपञ्जीयं कलौ गङ्गेव निर्मला ॥ ३ ॥
*B 669-23