________________
Extracts from MSS. purchased
for Government. No. 52. Rudrasutra, by ANANTADEVA [ रुद्रसूत्रम्-अनन्तदेवः]. Begins: सिद्धिबुद्धिप्रदातारं विघ्नव्यूहविदारणम् । महागणपति वन्दे भक्तकल्पमहीरहम् ॥ १॥ श्रीनृसिंह रमानाथं सच्चिदानन्दविग्रहम् । विधीन्द्रादिभिराराध्यं भक्तकामदुघं भजे ॥ २ ॥ सच्चिदानन्दरूपाय शिवादेहार्द्धधारिणे । नम ॐकारवाच्याय शिवायाभीष्टदायिने ॥ ३ ॥ याज्ञवल्क्यमुनीन्नत्वा कात्यायनमुनींस्तथा । श्रीगुरून्पितरौ रुद्रग्रन्थकर्तस्तथा परान् ॥ ४ ॥ श्रुति शतपथं वीक्ष्य बृहत्पाराशरी स्मृतिम् । बौधायनमुनेः सूत्रं श्रीमदुद्धवसूनुना ॥ ५॥ तन्यतेऽनन्तदेवेन रुद्रकर्मप्रकाशकम् । उपकाराय सर्वेषां सूत्रं वाजसनेयिनाम् ॥ ६ ॥ अथातः पचाङ्गरूद्राणां न्यासपूर्वकजपविधि व्याख्यास्यामः ।। Ends : श्रीमदु द्ध वपुत्रेण काशीपुरनिवासिना। धीमतानन्तदेवेन श्रुतिस्मृतिसमुद्धृतम् ॥ १ ॥ त्रैवेद्यमोढसंज्ञेन रुद्रस्त्रं समाप्तम् । मदीयनामयोविष्णुवन्द्ययोः शिवपादयोः ॥ २ ॥ मुहुर्मुहुः प्रार्थयेहं सज्जनान् शुद्धमानसान् । मयोक्तमिह संशोध्यं विचार्य सदसच्च यत् ॥ ३ ॥