________________
PRESERVED AT ANHILWAD PATAN.
129
यदिहोत्सूत्रं दृब्धं छद्मस्थबुद्धिना च मया । तन्माय कृपानुकलितैः शोध्यं गीतार्थविद्वद्भिः ।।
ग्रंथाग्रं ११२० ।। समाप्ता चेयं श्रीशीलभद्रप्रभुश्रीधनेश्वरसूरिपादपद्मचंच रोकश्रीश्रीचंद्रसूरिसंरचिता जीतकल्पबृहचूणिर्दुर्गपदविषया निशीयादिशास्त्रानुसारतः । संप्रदायाच सुगमा व्याख्येति ।। यावल्लवणोदन्वान् यावन्नक्षत्रमंडितो मेरुः । खे यावचंद्रार्को तावदियं वाच्यतां भव्यैरिति ।।
संवत् १२८४ वर्षे फाल्गुनवदि ७ सोमे मंगलं महाश्रीः ।। शुभं लेखकपाठकयोः ॥ शुभ्रांशु वि वस्तुपालसचिवस्त्यागोस्य चंद्रातपस्तेनोन्मीलितमर्थिकैरवकुले यत्तु श्रियस्तांडवम् । तस्याः पादतलप्रपातरभसोड्डीनैरिवोड्डामरैस्तेनातस्तरिरे तरंगितयशःकिंजल्कजालदिशः ॥ ३७॥ विश्वेऽस्मिन् कस्य चेतो हरति नहि समुल्लास्य विश्वासमुच्चैः प्रौढश्वेतांशुरोचिःप्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु भिया लीयते गह्वरेषु स्वर्गोत्संगानुपास्ते भजति जलनिधिं याति पातालमूलम् ।। ३८ ॥ एतेभ्यः प्रभुणा सगौरवमहं तावत्प्रदाना [दत्ता] परं देशं देशममी भ्रमंति तदहं गच्छाम्यमीभिः समम् । नो चेक्काप्यपरा मिलिष्यति वधूस्तत्रेति भीत्या ध्रुवं कीर्तिर्यस्य गुणानुपासति सदा श्रीवस्तुपाल: कृती ।। ३९ ॥ सोयं धात्रीवलयगिरिको वस्तुपालोऽचलेंद्रस्तस्मादाविर्भवति समरे कोपि दोःस्फूतिरेणुः ।
B669-17