________________
PRESERVED AT ANHILWAD PATAN.
99.
येन प्रबोधपरिनिर्मितवाग्वरत्रां क्षिप्त्वोद्भूतानि भवनानि भवधिकूपात् । निःशेषनाकिविभुवंदितपादपद्मो भूयान्ममाशुभभिदे स युगादिदेवः ॥ १ ॥ ज्ञेयार्णवं सुरवरैरिव यैः समंतात्सद्बोधमंदरमथा प्रतिमथ्य लब्धः । जीवादितत्ववररत्नचयो भवंतु ते वः श्रिये विजयिनो जिनवीरपादाः ॥२॥ दोगुरस्मरतिरस्करणप्रवीणा विश्वत्रयप्रथितनिर्मलकीतिभाजः । शेषा अपि प्रविकिरंतु जिना रजो वः सर्वामरप्रणतपावनपादपद्माः ॥ ३॥ वंदे पादद्वितयं भक्त्या श्रीगौतमादिसूरीणाम् । निःशेषशास्त्रगंगाप्रवाहहिमवद्गिरिनिभानाम् ।। ४ ।। पारं यस्याः प्रसादेन देहिनः श्रुतनीरधेः । गच्छंति तां जगद्वंद्यां प्रणौमि श्रुतदेवताम् ॥ ६॥ अस्मादृशोपि संजातः परेषां किल बोधकः । यत्प्रभावेन तान्वंदे स्वगुरूंस्तु विशेषतः ॥ ६ ॥ इत्थं कृतनमस्कारो नमस्कार्थ सवस्तुषु । प्रवक्ष्याम्यस्तविघ्नोर्थं प्रसुतं श्रुतनिश्रया ॥ ७ ॥ अंतरंगार्थगर्भ च यत्किचिदिह वक्ष्यते । तत्रोपमितिग्रंथोक्ता नृणां सर्वापि भावना ॥ ८ ॥ Ends:
जाव जिणसासणमिणं जाव य धम्मो जयग्मि वित्थरइ । ता उपदेसुउएसा भवोह सया सुहत्याहि ॥ सुगमा ॥ इति श्रीहेमचंद्रसूरिविरचितोपदेशमाला समाप्ता ॥ ग्रंथाग्रं १४००० ।। २.१४२५ वर्षे भाद्रपदवदि १ भौमे पुष्फमालावृत्तिः संपूर्णा लिखिता - ॥ स्वस्ति ॥ ऊकेशवंशे श्राद्धधर्मधुरीणो रीणदानादिपुण्य कृत्यकरणनिपुणः त० पूनाभिधानः श्रावकपुंगवोभूत् । तत्पुत्रः पवित्रः ठ० धणपालस्य तस्य सहचा