________________
72
EXTRACTS FROM MANUSCRIPTS
एतस्य विशदशीला जज्ञे पत्नी च गउरदेनाम्नी । निःसीमरूपसंपलक्ष्मीरिव बासुदेवस्य ॥ २ ॥ प्रीमलदेवीसंज्ञा सकर्णजनवर्णनीयगुणकलिता। अभवन्तयोस्तनूजा जिनपूजाध्यानतच्चित्ता ॥३॥ विमलतमशीलसुभगा नूनं या स्वीयशुद्धचरितेन । चिरवीतामपि सीतां निरंतरं स्मारयत्येव ॥ ४ ॥ तामुपयेमे सुकृती भूभुव इति विश्रुतो विशदबुद्धिः । ठकुरकालाभार्यारंभलदेवीप्रसूततनुजन्मा ॥ ९ ॥ श्रीजैनशासननभोभानुश्रीदेवसुंदरगुरूणाम् । प्रीमलदेवी साऽथ श्रुवा पीयूषदेश्यमुपदेशम् ॥ ६ ॥ मत्वाऽसारतरं धनं घनफलं लिप्सुनिजश्रद्धया वेदेषदधिशीतदीधितिमिते १४९४ संवत्सरे वैक्रमे । लक्ष्मीवैश्रवणातिशायिजनते श्रीस्तंभतीर्थाभिधे द्रगेऽलीलिखदेतदद्भुततमं श्रीसूत्रकृपुस्तकम् ॥ ७ ॥ आचंद्रादित्यमेतद्विरचितचतुरानंदसंपद्विशेष संख्यावद्भिर्मुनींद्रैरहमहमिकया वाच्यमानं वितंद्रैः । उद्यदुःखातिरेकाकुलनिखिलजगजीवजीवातुकल्पं श्रेयः श्रीहेतुभूतं प्रवचनमनघं जैनमेतच्च जीयात् ॥ ८ ॥
49. Santinathacharitra, by DEVACHANDRA (stofaareraft74 -देवचन्द्रः ] . Leaves 1 to 313 ; 30 inches long, 2 inches broad.
Begins : ॥६०॥ नमः श्रीशांतिनाथाय ॥