________________
PRESERVED AT ANHILWAD PATAN.
Jinapatistotra begins :
जयति भुजगराजप्राज्यफुल्लत्फणालीमणिकिरणकदंबाडंबरी पार्श्वनाथः । भुवनभवनगर्भादभ्रमोहांधकारस्छिदुरतरुणदीपोद्दीपने कौतुकी वः ॥१॥ दिशतु सुकृतलोकप्रस्तुतश्लाघ्यपूजाविलसितगुरुधूमस्तोमसंगादिवांगम् । दधदभिनवमेघश्यामलं मंगलं वस्त्रिजगदभयदीक्षादीक्षितः पार्श्वनाथः ॥ २ ॥ कमपि कमठदैत्याकालकालांबुवाहव्यतिकरबधिरोपि श्रीविशेषं दधानः । मदनमदविकारांभोरुहम्लानहेतुं जनयति स जिनेंदुर्युष्मदाशाप्रकाशम् ।। ३ ।। नयति भवदवाग्निव्याप्तिनिर्दह्यमानत्रिभुवनवनरेखादेशकः पार्श्वनाथः। घनमयमिव देहं पन्नगश्यामचूडामणिविरचितचंचूनाकिचापं दधानः॥ ४ ॥ कलितगुरुल शोभा भोगभर्तुः शरीरे निजकरकमलाने भंगिमालायमाना। दिशिदिशि मृगनाभीपत्रभंगाभिरामा ददतु शुभगात वः पार्श्वनाथस्य भासः॥ ५ ॥ तरलतरललामानंगहारांगहारामरसमरसरामापांगसारंगसारा । नवननवनवोक्तिीप्रसिद्धं प्रसिद्ध नमति न मातिमांस्तं कोंजनाभंजनाभम् ॥ ६ ॥