________________
40
EXTRACTS FROM MANUSCRIPTS
No. 22. Navapadaprakaranam by DEVAGUPTA with a Com• mentary by a pupil [नवपदप्रकरणं सटीकम् मू मा० देवगुप्तसूरिःटी॰ तस्य शिष्यः] Leaves 1 to 237; 30 inches long, 2 inches broad.
Commentary begins:
ओं नमो वीतरागाय ॥
शुद्धध्यानधनप्रात्या कर्मदारिद्र्यविद्रुतौ ।
निवृत्तिः साधिता येन तं नमामि जिनप्रभुम् ||१|| जयति जितकर्मशत्रुर्लव्यातुलमहिम के वलपताकः । त्रिदशासुरकृतपूजः सत्तत्वनिवेदको वीरः ॥ २ ॥ यस्याः प्रसादयानेन लीलया ज्ञेयसागरम् । तरंति विबुधाः सा मे सन्निवत्तां सरस्वती ॥ ३ ॥ मम बुद्धिः कुमुदिनीयं यत्संगमशशधरोदये सद्यः । अलभत विकाशमसमं तान्भक्त्या निजगुरून्नौमि ॥ ४ ॥ श्रीदेव गुप्तसूरिविरचितवान्नवपदप्रकरणं यत् । विवर्ते तस्य विधित्सुर्विज्ञपये सज्जनानेवम् ॥ १ ॥ वृत्तिर्यद्यपि विद्यतेत्र विहिता तैरेवमुच्चैः स्वयं संक्षेपेण तथापि या न सुगमा गंभीरशब्दा यतः । विस्पष्टार्थपदप्रबंधरुचिरा तेनेयमारभ्यते
किंचिद्विस्तरशालिनी तनुधियामिच्छानुवृत्त्या मया ॥ ६ ॥ यच्चासमंजसं किंचिज्जायतेत्र प्रमादतः ।
पुत्रापराधवत्सर्वं तद्बुधैर्मम सह्यताम् ॥७॥
इह चादावेव प्रकरणकारो भीष्टदेवतास्तवमभिधेयादित्रयं च प्रतिपादन
यितुकामः ॥