________________
30
EXTRACTS FROM MANUSCRIPTS
Ends:
प्रकरणस्य प्रचयगमनमाशास्ते ॥ तांबूलद्वयामिति ।। यो ब्रूते पटपदार्थान्षडाधिकदशधा भावभेदाभिधायी यस्तस्यां विद्यमाना क्षणविकलगतिः कंटकाभ्याभिवासीत् । तावुद्धत्याद्वितीयश्रुतिरधिकसुखा येन चक्रे कवींद्रः श्रीहर्षोन्वर्थनामा स्वयमापे परमानंदभावं प्रपेदे ।। ओंकारो वदनांतरालकुहरे सर्वाधविध्वंसको यस्य ज्ञानमयस्तनोति सततं हेषारवाडंबरम् । वेदैः कल्पितदिव्यमर्तिविभवः सांगैस्तुरंगाननः सोयं मानसपंकजेषु भवतां कुर्याद्वरिः सन्निधिम् ।। येनोच्चैः परमात्मबोधतरणेः पंथानमातन्वता तुंगं मोहगिरि निरुध्य चुलुकीचक्रे भवैकार्णवः । सञ्चेतःपयसां प्रसात्तिकृदसौ चक्रे पदं खंडने व्योम्नीबान्वभवत्स्वरूपभगवानव्याजकुंभोद्भवः ॥ ॥ इति शिष्यहितैषिण्यां खंडनटीकायां चतुर्थः परिच्छेदः ॥ ॥
No. 16. Mallicharitamahakavyam, by VINAYACHANDRACHARYA [मल्लिचरितमहाकाव्यम् -विनयचन्द्राचार्यः]. __Leaves 2 to 300 ; 21 inches long, 2 inches broad. The “ Granthagra” is given as 4,750.
Ends : चरित्रं श्रीमलेः श्रवणयुगपीयूषसरसीरसीभूतात्मानो विनयविनता ये भवभुवः ।। विगाहंते सबै सकलकमलोद्भतिजनक भवेत्तेषां सत्यं निजनिजमनश्चितितविधिः ॥ ९३० ॥