________________
23
EXTRACTS FROM MANUSCRIPTS
तद्वंशभूषणमणिननु नायकोभू-. त्तस्माद्गदाधरसुधी: सुधियामधीशः ।। तस्यांगजा समभवद्विजवयवंद्यः श्रीश्रीपति ---मानसराजहंसः ॥ ५ ॥ तस्य सूनुः सदाचारसंपन्नः सज्जनाग्रणीः ।। सारंगमूरिनामाभन्माध्यंदिनविभूषणम् ॥ ६ ॥ सत्साहित्यमहोदधिनिरवधिदग्ध्यदुग्धांबुधेः श्रीमाध्यंदिनधर्मदुर्धरधुरोद्धाकधुर्यस्ततः ।। सूनुर्विष्णुपदांबुजार्चनरतः श्रीराघवार्योभवसरिभूरियशाः प्रशांतविगलत्पुत्रैषणादित्रयः ॥ ७ ॥ अस्त्येतस्य जगत्प्रशस्यचरितः कारुण्यपुण्यार्णवस्तारुण्यादिमदान्गदानिव सदा यो मन्यते दुःखदान् ।। सौजन्यावसतिस्त्रिविक्रम इति प्रज्ञादिजन्मक्षितिब्राह्मण्यैकमतिः कृतातिथिजनप्रीतिश्चिरायुः सुतः ॥ ८ ॥ यः कातंत्रविचित्रसूत्ररचनापाथोधिमंथाचल: श्रीमदुर्गम दुर्गवत्तितटिनीकल्लोलनको महान् ।। छंदःकंदलपालनप्रविलसद्गीर्वारिदोवारिदोलंकारार्णवकुंभसंभव मुनिः काव्याधिचंद्रोदयः ॥ ९ ॥ सारस्वतव्याकरणस्य सूत्रे रम्या बृहद्वत्तिरकारि येन । श्रीवृत्तरत्नाकरसूत्रटीका विनिर्गता तेन चिराय नंद्यात् ॥ इति श्रीरघुसरिसूनुश्रीविक्रमसूरिविरचितायां वृत्तरत्नाकरच्छंदःसूत्रटीकायां षष्ठोऽध्यायः समाप्तमिति ॥ मंगलं महाश्रीः ।। शुभं भवतु लेखकपाठकयोः ।।