________________
PRESERVED AT ANHILWAD PATAN.
एवं कुर्वन्नहोरात्रं कृत्यानि परमार्हतः ॥ कुमारपालदेवोयं राज्यं पालयति क्षितौ ॥ २२ ॥ नृपस्य जीवाभयदानडिंडिमैर्महीतले नृत्यात कीर्तिनर्तिकी ॥ श्रीहेमचंद्रप्रभुपादपद्मं वंदे भवाब्धेस्तरणैकपोतम् ।। ललाटपट्टांतरकांतराड्याक्षरावली येन मम व्यलोपि ।। २३ ।। बोधयित्वा महाराज देवलोकं जगाम यः ।। पश्चात्कुमारपालोयं शोकं गत्वा मुमूर्छ सः ॥ २४ ।। तदनु धैर्यमवलव्य धर्मध्यानं करोति ॥ सावयघरंमि वर हुज्ज चेडओ नाणदंसणसंजुओ ॥ मिच्छत्तनिहियमई मा राया चकवट्टी वि ॥ २५ ॥ इतिभावनया जैनशासनं परिपाल्य स्वर्ग जगाम ॥ तत्पट्टपूर्वाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः ।। श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ॥ २६ ॥ यावन्निहताखिलसंतमसौ नभसि चकास्ते रविचंद्रमसौ ॥ ताबद्धेमकुमारचरित्रं साधुजनो वाचयितु पवित्रम् ।। २७ ।। अज्ञानादथवा प्रमादवशतो ह्यालस्यतो वा सदा यद्याख्यातमसंगतं विरचितश्चित्ते कथायां क्वचित् ।। संबंधो न निवेदितो न कथितः सद्धर्मलाभो मया तत्सर्व ननु निर्विकल्पमनसा संघेन संक्षम्यताम् ।। २८ ।। यः सन्यत्कनिधिर्भवार्णवमहासेतुर्जगन्मंगलं निश्रेणिः शिवमंदिरं जिगमिषोश्चारित्ररत्नापणः ।। ज्ञानश्रीकुलसद्म तीर्थपतयोप्युच्चैनमस्यंति यं स श्रेयांसि निरंतरं दिशतु वः श्रीसंघभट्टारकः ॥ २९ ॥
669-4