SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 20 ० । सहर्षम् । सूत्र ० EXTRACTS FROM MANUSCRIPTS नांद्यं सूत्रधारः 1 यतः विस्तीर्णेऽत्र जिनेंद्रसद्मनि महान्यात्रोत्सवो वर्तते यत्तत्राभिनयो मयाद्य सुधिया कार्यः प्रबंधस्य च । सौभाग्योपरि मंजरीपरिचयः सोयं प्रवत्तिष्यते यद्वा स्थास्यति रत्नवृष्टिघटना सैषा सुवर्णोपरि ॥ २ ॥ स्वगतम् । कथमद्यापि श्रीमद्देवगुरुगुणप्रस्तावक जनकल्पपादपप्रागल्भ्यश्रीसंघ सभ्याभ्यर्णमभिनेयप्रबंधपरिज्ञानार्थमुपस्थितः सततमस्मासु सत्यापितसमीचीन वैनयिकलीलः सुशीलः शैलूषो विलंबते । प्रविश्य नटः । पत्रमर्पयन् । भाव सव्वजणाभिप्पेयनाडयारंभपवत्तयं एयं तं पत्तयं । सूत्र० गृहीत्वा सोत्कर्षे वाचयति । यः सत्त्वतत्त्वप्रणयैकपात्रं संग्रामधर्मोऽभयसत्यसंधः । यस्मिन्नसौ नायकतामुपौत सैष प्रबंधोऽभिनयेन योज्यः ॥ ३ ॥ दानैकवीरा भुवि संति केचिद्रणैकवीरा व्यपरे पुमांसः । तपः प्रवीरा इतरेऽत्र लोके वीरव्रती त्रिष्वपि यः स नेता ॥ ४ ॥ क्षणं विमृश्य सहर्षोल्लापं हुं ज्ञातं मार्ष २ निश्चितं श्रीदशार्णभद्रचरित्र शुश्रूषातरंगि तोयं पारिषद्यलोकः । अहो अस्मदीयहृदयानंदसंवावदूकोयं श्रीसंघसमादेशः
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy