________________
154
EXTRACTS FROM MSS.
अथ श्रीकुमारनंदिसैद्धांतदैवशिष्ये [ सैद्धांतिकदेवशिष्यैः ] प्रसिद्धकथान्यायेन पूर्वविदेहं गत्वा वीतरागसर्वज्ञसीमंधरस्वामितीर्यकरपरमदेवं दृष्ट्वा च तन्मुखकमलविनिर्गतदिव्यवर्णश्रवणादवधारितपदार्थसमूहैः बुवात्मतत्त्वादिसारार्थ गृहीत्वा पुनरप्यागतैः श्रीमरकुंदकुंदाचार्यदेवैः पद्मनंद्याद्यपरनामधेयैरंतस्तत्त्वबहिस्तत्त्वगौणमुख्यप्रतिपत्त्यर्थम् । अथवा शिवकुमारमहाराजादिसंक्षेपरुचिशिष्यप्रतिबोधार्थ विरचिते पंचास्तिकायप्राभृतशास्त्रे यथाक्रमेणाधिकारशुद्धिपूर्वकं तात्पर्यार्थव्याख्यानं कथ्यते । तद्यथा । प्रथमस्तावत् , इंदसयवंदियाणमित्यादि पाठक्रमेणैकादशोत्तरशतगाथाभिः पंचास्तिकायषड्व्य प्रतिपादनरूपेण प्रथमो महाधिकारः । अथवा स एवामृतचंद्रिकाटीकाभिप्रायेण अधिकशतपर्यंतश्च । तदनंतरमभिवंदिऊण शिरसा इत्यादि पंचाशद्गाथाभिः सप्ततत्त्वपदार्थव्याख्यानरूपेण द्वितीयो महाधिकारः । अथवा स एक टीकाभिप्रायेणाष्टचत्वारिंशद्राथापर्यंतश्च । अथानंतरं जीवसहावो णाणं इत्यादि विंशतिगाथाभिर्मोक्षमार्गमोक्षस्वरूपकथनमुख्यत्वेन तृतीयोधिकार इति समुदायेनैकाशीत्युत्तरशतगाथाभिर्महाधिकारत्रयं ज्ञातव्यम् ॥ मू आ-इंदसयवंदियाणं तिहुअणहितमधुरविसदवका[का]णं।
अंतातीदगुणाणं णमो जिणाणं जिदभयाणं ॥ १ ॥ मूच°-एगो मे सस्स हो अप्पा णाणदंसणलक्खणो ।
सेसा मे वाहिरा भावा सो संयोगलक्खणा ॥ टीच-समुदायेनैकादशोत्तरशतगाथाभिः पंचास्तिकायप्राभृतः
समाप्तः । जिनबिंबं जिनागारं जिनपूजां जिनस्तुतिम् ।
यः करोति नरस्तस्य न किंचिहुर्लभं भवेत् ।। इति श्रीपंचास्तिकायजीकी टीका ब्रह्मदेवजीकृता संपूर्णा ।