________________
152
EXTRACTS FROM MSS.
इति श्रीधन्यकुमारचरिते भट्टारकश्रीमल्लिभूषणशिष्यब्रह्मनेमिदत्तविरचिते धन्यकुमारमहामुनिसर्वार्थसिद्धिगमनो नाम पंचमोऽधिकारः संपूर्णः ॥
No. 1434.
धर्मरत्नाकरः-जयसेनः । आ°-लक्ष्मी निरस्तनिखिलापदमामुवंतो
लोकप्रकाशरवयः प्रभवंति भव्याः । यत्कीर्तिकीर्तनपरा जिनवर्धमानं
तं नौमि कोविदनुतं स्वधिया सुधर्मम् ।। १ ।। च-गोपी मंथानवद्या जगति विजयतां
सा सखी मुक्तिलक्ष्म्याः ॥ ६६ ॥ इति धर्मरत्नाकरे उक्तानुक्तशेषविशेषसूचकोविंशतितमोऽवसरः।
श्रीवर्धमाननाथस्य मेदार्यो दशमोऽजनि । गणभृशधा धर्मो यो मूतॊ वा व्यवस्थितः ॥ १।। मेदार्येण महर्षिभिर्विहरता तेपे तपो दुश्चरं श्रीखंडिल्लकपत्तनांतिकरणाभ्यर्धिप्रभावात्तदा । शाग्येनाप्युपतन्वता सुरतरुप्रख्यां जनानां श्रियं तेनागीयत झाडवागड इति त्वेको हि संघोऽनघः ॥ २॥ धर्मज्योत्स्ना विकिरति सदा यत्र लक्ष्मीनिवासाः पापुश्चित्रं सकलकुमुदायत्युपेता विकाशम् । श्रीमान्सोभून्मुनिजननुतो धर्मसेनो गणींदुस्तस्मिन् रत्नत्रितयसदनीभूतयोगींद्रवंशे ॥ ३ ॥ भंजन्वादींद्रगानं पुरिपुरि नितरां प्रामुवन्नुद्यमानं तन्वन् शास्त्रार्थदानं रुचिरुचिरुचिरं सर्वथा निर्निदानम् ।