________________
148
EXTRACTS FROM MSS.
शकनृपकालाभ्यंतरविंशत्यधिकाष्टशतमिताब्दांते । मंगलमहार्थकारिणि पिंगलनामनि समस्तजनसुखदे ॥३५॥ पंचम्यामाश्विने गोयुजि 'दिवसवरे मंत्रिवारे' बुधांशे पूर्वायां' सिंहलग्ने धनुषि धरणिजे वृश्चिका तुलायाम् | सार्प शुक्रे कुलीरे रविजसुरगुरौ निष्ठितं भव्यवर्यैः प्राप्नेज्यं शास्त्रसारं जगति विजयते पुण्यमेतत्पुराणम् ||३६।।
यावद्धराजलनिधिर्गगनं हिमांशुस्तिग्मद्युतिः सुरगिरिः ककुभां विभागाः । तावत्सतां वचसि चेतसि पूतमेतच्छोतव्यतास्थितिमुपैति महापुरणम् ।। ३७ ॥ धर्मोत्र मुक्तिपदमत्र ( कवित्वमत्र ) तीर्थेशिनां चरितमत्र महापुराणे । यहा कवींद्रजिनसेनमुखारविंदनिर्यदचांसि न मनांसि हरंति केषाम् ।। ३८ ॥ महापुराणस्य पुराणपुंसः पुरा पुराणे तदकारि किंचित् । कवीशिनानेन यथा न काव्यचर्चासु चेतोविकलाः कवींद्राः ॥ ३९ ॥ कविवरजिनसेनाचार्यवर्यार्यमासौ मधुरिमणि न वाच्यं नाभिसूनोः पुराणे | तदनु च गुणभद्राचार्यवाचो विचित्राः
सकलकविकरींद्रवातसिंह्यो जयंति ॥४०॥ १. एकपंचाशत्तम संवत्सरे वर्तमाने. २. किरणयुक्त-अर्थादाश्विन शुक्लपंचम्याम. ३. गरुवारे, ४ कन्याख्ये-पूर्वाषाढनक्षत्रे. ५ धनराशौ मंगले स्थिते चंद्रे च स्थिते सति. ६. वृश्चिकसंक्रातो. ७. सार्प राहो सति बुधे च सति. ८.कर्कराशी हाके सति. ९. रविजेन शनिनोपलक्षितः सुरगुरुस्तस्मिन्.