________________
PURCHASED FOR GOVERNMENT.
141
च-यातः जातः] श्रीमति मूलसंघतिलके सारस्वते सच्छुभे गच्छे स्वच्छतरे प्रसिद्ध महिमा श्रीकुंदकुंदान्वये । श्रीजैनागमसिंधुवर्धनविधुर्विद्वज्जनैः सेवितः श्रीमत्सूरिमतल्लिका गुणनिधि यात्प्रभाचंद्रवाक् [चंद्रकः]।।६९
श्रीमज्जैनपदाब्जसारमधुकृच्छ्रीमूलसंघाग्रणीः सम्यग्दर्शनसाधुबोधविलसच्चारित्रचूडामणिः । विद्यानंदिगुरुप्रपट्टकमलोल्लासप्रदो भास्करः श्रीभट्टारकमल्लिभूषणगुरुभूयात्सदा शर्मणे ।। ७० ॥ श्रीसर्वज्ञविशुद्धभक्तिनिरतो भव्यौघसंबोधकः कामक्रूरकरींद्रदर्पदलने कंठीरवो निष्ठुरः । ज्ञानध्यानरतः प्रसिद्धमहिमा रत्नत्रयालंकृतः कुर्याच्छर्म सतां प्रमोदजनकः श्रीसिंहनंदी गुरुः ॥ ७१॥ प्रोद्यत्सम्यक्त्वरत्नो जिनकथितमहासप्तभंगीतरंगैनिधूतैकांतमिथ्यामतमलनिकरः क्रोधनक्रादिदूरः । श्रीमज्जैनेंद्रवाक्यामृतविशदरसः श्रीजितेंदुप्रवृद्धिर्जीयान्मे सूरिवर्यो व्रतनिचयलसत्पुण्यपण्यःश्रुताब्धिः।।७२ तेषां पादपयोजयुग्मकृपया श्रीजैनसूत्रोचिताः सम्यग्दर्शनबोधवृत्ततपसामाराधनासत्कथाः । भव्यानां वरशांतिकांतिविलसत्कीर्तिप्रमोदं श्रियं
कुर्युः संरचिता विशुद्धशुभदाः श्रीनेमिदत्तेन वै ।।७३॥ इति कथाकोशे भट्टारकश्रीमल्लिभूषणशिष्यब्रह्मनेमिदत्तविरचिते श्रीजिनपादपूजाफल दृष्टांतकथावर्णनायां चतुर्थः परिच्छेदः समाप्तः।। संवत् १६१४ वर्षे महासुदि ८ भृगुवासरे