________________
PURCHASED FOR GOVERNMENT.
125
च-गच्छे श्रीमति भास्वरां [राः] खरतराचार्याभिधे बिभ्रति
स्याद्वादेप्यतिगाधलिप्सुनिपुणा धर्मार्थमोक्षप्रदाः । भूपालप्रभृतिप्रसिद्धयशसस्साक्षाद्धि कल्पद्रुमाः श्रीमंतो जिनचंद्रसूरिगुरवोऽभूवन्सतां प्रीतये ।। ३० ॥ तत्पहाद्रिविरोचनाः प्ररुचिराचारप्रचारक्रियाः प्रोद्योतप्रकृतिप्रभावपटलप्रारंभकास्सर्वदा । धर्मध्यानविधानबुद्धिविभवास्सर्वज्ञधर्मादरा ह्यासन् श्रीजिनपूर्वकोदयगणाधीशाः जगद्वत्सलाः ।। ३१॥ तत्पट्टे विदितागमार्थनिधयः श्रीहेमसूरीश्वराः राजते महनीयकीर्तिविभवास्संघस्स मांगल्यदाः। तत्पादांबुजचंचरीकसदृशश्शिष्योहमेनां शुभां पथै स्वल्पतरैश्वकार कृतिमान्सिद्धांतरत्नावलीम्।। ३२॥ इति श्रीसिद्धांतरत्नावली संपूर्णा ॥
No. 1382. स्याद्वादमञ्जरी सटीका-मूल्हेमचन्द्रः। टी मल्लिषेणः। टी आ०-यस्य ज्ञानमनंतवस्तुविषयं यः पूज्यते देवतैः...
इह हि विषमदुःखमारजनितिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासारणीदेश्यदेशनाबितानपारमाहतीकृतकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधानजीवानुसंजीवितनानाजीवप्रदत्ताशिर्वादमाहात्म्यकल्पावधिस्थायिविशदयशःशरीरेण निर्विद्य[ निरवद्य चातुर्विद्यनिर्माणकब्रह्मणा श्रीहेमचंद्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेनदिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारिश्रीवर्धमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वावबोधनिबंधनं विदधे । तत्र प्रथमहात्रिंशिकायाः सुखोने