________________
PURCHASED FOR GOVERNMENT.
119
तद्विवरणमंजूषामनुसन्य पदार्थमात्रसारेयम् ।
संक्षिप्तरुचिहितार्थं विधिरलकरंडिका क्रियते ।। ५ ॥ इह हि परोपकारकृतधियो विशुद्धसिद्धांताचार शृंगारितचारित्रश्रियः श्रीजिनदत्तसूरयस्तथाविधविषमदुःखमासमुल्लसदसदुपदे शदा. यकवचनश्रवणान्यान्यक्रियानुष्ठानदर्शनोद्भतप्रभूतसंदेहावत्तपतितलोकमालोक्य कतिचित्त मुद्ध मनसः स्वपरसंभावितप्रश्नतदनुसारिता. दृगुत्तरदानप्रधानसंशयपदप्रश्नोत्तरनामकं संदेहदोलावली तद्वितीयनामप्रसिद्धं प्रकरणमकार्युः ।। अत्र चायं वृद्धवादः । श्रीवी ठणहिंडानगरवास्तव्या काचिपुण्यमती परमखरतरश्राविकात्मगुरूपदिष्टधर्मानुपाननिरता वसति स्म । अथ विविधगच्छवासिसाधुजननवनवोक्तिभिः संशयापना सती सम्यगुत्तरलाभार्थ कानिचित्संदेहपदानि विज्ञप्तिकायां लिखित्वा श्रीमदंबिकादेवताप्रकाशितयुगप्रधानतावभासितनाम्नां श्रीजिनदत्तसूरीणां पादमूले प्रेषितवती श्रीपूज्यश्व तद्वाचनानंतरं तत्काल मेव तस्या भाविलोकानां चोपकारासार्ध शतगाथाप्रमाणमिदं प्रकरणं विरचितमिति ।। तत्रादौ शिष्टसमयपरिपालनार्थमभीष्टदेवतानमस्कारादित्रितयप्रतिपादनार्थ गाथा इयमाहुः ॥
पडिबिंबियपणयजयं जस्संहिरुहोरुमउरमालासु । सरणागयं व नजंइ तं नमिय जिणेसरं वीरं ॥ १॥ क इवयसंदेहपयाणमुत्तरं सुगुरुसंपयारण ।
वुच्छं मिच्छत्तमओतमन्नहा होइ संसइयं ।। २।। व्याख्या च-युगप्रवरागमजिनवल्लभसूरिशिष्येणोक्तमन्यथा तु सकल
जगत्कल्याणकामकुंभेन त्रिभुवनस्पृहणीयमहामहिम्ना सर्वत्रातिख्यातिमारूढेन श्रीजिनदत्तसूरिनाम्नैव साध्यसिद्धिः संपनीपद्यत इति भावः ॥ १५० ।।