________________
PURCHASED FOR GOVERNMENT.
ततः श्रीशक्रनृस्तुत्यः श्री सोमतिलकाह्वयः । सूरिर्भूरियशा जज्ञे विज्ञेषु प्रथितो धुरिं || ९ || श्रीदेवसुंदर गुरुर्गरिमांबुराशि
113
वित्रासितारिरभवद्भुवनातिशायी ।
तत्पड पंकजरविः पाणितेजी [ प्रथितोरुतेजा ] भूजानिदितपदः शिवमार्गदर्शी ॥ १० ॥ सूरिर्युगोत्तम समोऽजनि तस्य पट्टे श्रीसोमसुंदरगुरुर्गुरुभाग्यशाली | यं श्रीसुधर्मगुरुणा गणभृत्पुरोगं सर्वांगगिमगुणैस्तुलयंति संतः ॥ ११ ॥ तच्छिष्यः प्रथमः समर्थमहिमा त्रैविद्य गोष्ठीगुरुः सूरिः श्रीमुनिसुंदरः सुरगुरुः ख्यातः क्षितौ प्रज्ञया । अस्ति प्रास्ततमोभरस्तदपरः सूरिस्तु भूरिप्रभा - शाली श्री जयचंद्र इत्यभिधया सर्वत्र लग्योदयः ।। १२ ।। यो विश्वाद्भुतलब्धिभिः सुमनसामाश्चर्यकृद्भिः कलौ सौभाग्यांबुधिराससाद पदवीं श्री गौतमस्वामिनः | स श्रीमहरु सोमसुंदर पदां भोजाक राहपतिजयाच्छ्रीजयचंद्रसूरिरचना[रवनौ ] सूरीश्वर ग्रामणीः ॥ १३ ॥
विंशतिस्थानकाचारविचारामृत संग्रहः ।
गच्छेशश्रीजयचंद्रसूरिशिष्येण निर्मितः ॥ १४ ॥
वीरमगामाख्यपुरे युग्मज्यों में दुपंचभिः ।
प्रमिते वत्सरे हर्षाज्जिनहर्षेण साधुना || १५ ॥ ग्रंथस्यास्य पवित्रस्य वाचन श्रवणादिभिः | लभते प्राणिनः प्रौढां श्री जिनेश्वर संपदम् ।। १६ ।।
15