________________
110
EXTRACTS FROM MSS.
श्रीमत्तपगणगगनांगणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककशलेन॥ १॥ नयनशररसेंदुमिते १६५२ वर्षे विराटनानि वडनगरे। बालजनविबोधनार्थ विजयदशम्यां हि समाप्ता ।।२।।युग्मम् ।
श्लोकानां षट्शती षोडशोत्तरा समजायत ।। प्रत्यक्षरं गणनया वृत्तौ संख्या निवेदिता ।। १ ।।
__No. 1306. भरतेश्वरबाहुबली वृत्तिः-शुभशीलगणिः । आ°-युगादी व्यवहाराध्वा सर्वो येन प्रकाशितः । __स श्रीवृषभयोगींद्रो दद्यादोऽव्ययसंपदम् ।। १ ।। च-श्रीमतीकथा तपसि समाप्ता ।
श्रीचंद्रगच्छांबरभूषकोभूतपागणो सानुविद्वदीप्ति [भानुरिवातिदीप्तिमान् || प्रबोधयन् भव्यजनांबजाला [बुजानि] स्वगोविलासैरिव साधुवर्गम् ।। १॥ तत्राभवन् वरगुणगणमणिरोहणमहीधरप्रतिमाः । परमगुरुसोमसुंदरगुरवः संयमरमायतयः ॥ २ ॥ तच्छिष्या मुनिसुंदरगुरवो जयचंद्रसूरयोऽभूवन् । पारंगतागमजलनिधिपारं गता रुचिरगुणनिलयाः।। ३ ।। तच्छिष्या विजयंते दधते श्रीसूरिमंत्रमहिमभरः रिम् ।
श्रीयुक्तरलशेखरगुरव उदयनंदिसूरिवराः।। ४ ।। लक्ष्मीसागरसूरीशाः सोमदेवाह्वसूरयः । विजयंते लसद्विद्यावार्धिमंथनमंदराः ॥ ५ ॥ श्रीमन्मुनीशमुनिसुंदरसूरिराजशिष्याप्यो] मनीषिशुभशील इति प्रमूर्खः ।