________________
EXTRACTS FROM MSS.
भांडागारमबीभरद्वरतरैर्नानाविधैः पुस्तकैः स श्रीमज्जिनभद्रसूरिसुगुरुर्भाग्याद्भुतोऽभूद्भुवि ॥ २१ ॥
ततः क्रमाच्छ्रीजिनचंद्रसूरिः समुद्रसूरिजिनहंससूरिः । माणिक्यसूरिर्गुणरत्नसूरि
र्जातस्ततः सारविचारसूरिः ॥ २२ ॥ तदीयपदपूर्वाद्रिप्रकाशनरविप्रभाः । श्रीजिनचंद्रसूरींद्रा जयंति जयिनोऽधुना ।। २३ ।। येभ्यो मुदादायि युगप्रधानपदं प्रभुश्रीमदकब्बरेण । प्रभूतभाग्योदयसुप्रसिद्धा जयंतु ते श्रीजिनचंद्रसूरयः।।२४॥
श्रीसाहिवाक्याद्गुरुभिः प्रमोदा (ये सं)यमाचार्यपदे प्रतिष्ठिताः । जायद्यशोराशिविराजमाना
जयंतु ते श्रीजिनचंद्र सूरयः ।। २५ ॥ नचारुचरणांभोजचंचरीकमनाः सना । गणिः सकलचंद्राख्यो विख्यातो मुख्यशैक्षकः ॥ २६ ॥ तच्छिष्योऽभ्यस्तिवृद्धयर्थ गणिः समयसुंदरः । वाचकः संव्यधातृयक्षिम दष्टलक्षीं]रत्नावलीमिमाम् ॥२७|| श्रीजिनसिंहमुनीश्वरवाचकवरसमयराजगणिराजाम् । मद्विबैकगुरूणामनुग्रहो मेऽत्र विज्ञेयः ॥ २८ ॥ मत्सरेणाहतो मूर्योऽसहमानः परोन्नतिम् । सच्छास्त्रं दूषयत्येव वारिकुंभमरिष्टवत् ॥ २९ ॥
मात्सर्यमुत्सार्य विचार्य सम्यग् ज्ञात्वा प्रयासं समदुष्करत्वम् ।