________________
70
EXTRACTS FROM MSS.
यकशोधर्यमासवै यकःशोधयामास वै] सूरिमंत्र
___ गिरीद्रार्बुदस्याद्भुते शृंगभागे । विधायाष्टमं संनमन्नागनाथस्ततोवर्धमानाभिधः सूरिरासीत् ॥ ७ ॥ श्रीमहुर्लभराजराजसदसि श्रीपत्तने पत्तने वादं श्वेतपटैः प्रभूतक पटैः साकं सदा लंपटैः । कृत्वा यः प्रकटीचकार वसतेर्मार्ग मनोहारिणं सूरिजयो [सूरिभूरिजयो] जिनेश्वरगुरुर्जातो
जगदिश्रुतः ॥ ८ ॥ संवेगरंगशाला येन कृता जगति लोकहितहेतुः । जातः श्रीजिनचंद्रः सूरिस्तत्पट्टम[ग] चंद्रः ॥ ९ ॥ अतिचंगनवांगवृत्तिकार खरतरगणनायक सुगणधीर । यशसायुत जय चिरमभयदेव भूरीश्वरकृतचरणसेव।।१०॥ कृत्वा समीपेऽभयदेवसूरि[ रे ]र्येनोपसंपगृहणं प्रमोदात् | पपो रहस्यामृतमागमानां सूरिस्ततः श्रीजिनवल्लभोऽभूत् ।।११ जिग्यिरे येन योगिन्यश्चतुःषष्टिर्यतींदुना । सूरिः श्रीजिनदत्तोऽभूत्तत्पट्टांबुजभास्करः ॥ १२ ॥ ततस्तनुभृतां प्रियः समजनिष्ट शिष्टक्रियः प्रणष्टतिमिरोत्करः सुजिनचंद्रसूरीश्वरः । कवित्वसुममालिको नरमणीमनोज्ञालिको तमभि[ततो निखिलनायकः प्रबलसौख्य
संदायकः ॥ १३ ॥ जिनपतिसूरिजिनेश्वरसूरीश्वरजिनप्रबोधजिनचंद्राः। तत्पट्टानुक्रमतोऽभूवन्भूपीउविख्याताः ॥ १४ ॥