________________
PURCLASED FOR GOVERNMENT,
55
नानामनोरथचकोरकुलस्य पूर्ये
बिभ्रज्जयत्यमृतरश्मिकलां गणेशः।। १ ।। व्याकोशनाय फुल्लत्वकरणाय कैरवं कुमुदं ... अथ स्वेष्टदेवते उमामहेशौ सकलवांछितार्थसिद्धये प्रणमति । संप्राप्यासुः शु] प्रणतमनुजामामितो अनुजाभ्यामिवो] माभितः श्रीवाग्देवीभ्यां कनकरजताभासिनीभ्यामितीव । स्वस्वांगाभांकितमचलजाशर्वयोः पादपद्मद्वंद्वं वन्दे मिलितवपुषोश्चंपकेंद्वाभकांत्योः ।। २ ।। ...
अथ कविर्निपूर्वजमहत्वपकटनच्छलादात्मनस्तादृशत्वं सूचयप्रामाणिकप्रणीतो ग्रंथ आदरणीय इति भंग्याह ।
आसीन्मालवदेशमंडनमणिः श्रीश्रीधराचार्य इत्युद्गीतो भुवने समाधिसमये साक्षात्कृतोमापतिः । श्रीवत्सान्वयसागरामृतकरः श्रुत्यब्धिकुंभोद्भवः
कैवल्यावगतेरवाप्तमनुजालभ्याखिलप्रत्ययः ।। ३ ॥ कुंभोद्भवोऽगस्ति मुनिस्तेन यथा प्रागब्धिः कुक्षौ क्षिप्तस्तथानेन श्रुतयः...
सूनुः संक्रमदर्पणो गुणगणस्यास्याभवत्कोविदो विख्यातः शिवदासमिश्र इति तत्पुत्रो विभाति क्षितौ । वेदांभोनिधिपारगः पृथुयशाः श्रीसूर्यदासाभिधो वंश्यांभोरुहवृंदवासरमणिः श्रौताग्निसेवापरः।। ४ ।। अस्य सूनुरस्य गुणगणस्य संक्रमदर्पण इत्यस्य ...
अथ गुरुं प्रणमन् भत्या जनन्याश्च नाम प्रकाशयन् चिकीर्षित प्रतिजानीते ।।
नत्वा हीरस्वामिनमनुग्रहात्तस्य लब्धविशदमतिः । कुर्वेऽथ विशालाक्षीतनयो यंत्रप्रकाशमहम् ।। ६ ॥