________________
PURCHASED FOR GOVERNMENT.
53
कामं भृगांगनाभिर्विरचितसरसोद्गीतसंशोभिगंडं
प्रत्यूहध्वांतधारातरुणिमतरणिं वक्रतुंडं नमामि ॥ १॥ ज्ञानप्रदीपादथ प्रश्नदीपात्संवित्प्रकाशादथ विष्णुतन्त्रात् ।
आदाय सारं मिहिरादिशास्त्राद्वीम्यहं प्रश्नसुधाकराख्यम् ॥२॥ च-मज्जद्गीर्वाणकन्याकुचकलशतटापातसंचूर्णितांभाः
संभोगासक्तरंभाद्यमरपुरवधूनव्यजंभारिकी । प्रौढाहंभावभाजामपि सकलनृणां हंत दंभादिशत्रुच्छेदस्वच्छांबुपूरा विलसति भुवने सा त्रिवेणीकृपाणी ॥२८॥ यत्संपर्कात्प्रयागः समजनि सहसा तीर्थराजाभिधानो यस्मिन्पद्मासनोपि प्रतिदिनमकरोदश्वमेधीयदीक्षाम् । यस्मिन्यग्रोधवृक्षः प्रलयजलनिधिस्थायिशय्या मुरारेवेदो यस्यैव गाथां ग्रथयति सहसा मुक्तितात्पर्यवक्त्रीम्।।२९।। तस्मात्तीर्थाधिराजारसकलवसुमतीस्वर्गसोपानमार्गाद्याम्ये भागेऽथ विंध्याभिधधरणिधरादुत्तरस्मिन्प्रदेशे । आस्तेऽलर्काभिधानं नगरमतिलसत्सूर्यकन्यासमीरस्फारोन्मीलहिलासं सकलवसुमतीमंडनीभूतलोकम् ॥३०॥ ज्योतिर्विद्याविलासप्रणयपटुमतिर्भूमिदेवावतंसस्तत्राभूत्कोपि तत्त्वं समधिगतमथो येन वाग्देवतायाः। गंगारामाभिधानः सकलनृपसभामौलिमंदारवल्ली. मालानिर्यन्मरंदव्यतिकररचितापूर्वपद्यादिपूजः ॥ ३१॥ क्षीराम्भोधेः कलावानिव विमलयशाः प्रादुरासीत्तदीयः सूनुः सर्वानवद्याकृतिरचितजगद्रामनामा मनीषी । यस्य स्फारैश्चरित्रैरिदमजनि जगत्कौतुकोत्तानिताक्षं यद्वाचा पूर्णकामाः कथमिव कथयंत्वर्थिनः काकुवाचम्॥३२॥