________________
PURCHASED FOR GOVERNMENT.
च० - इति श्रीमन्महोदारांतः करणमिश्रविष्णुदासात्मज हरिदासमिश्रकृतायां रघुकाव्यार्थप्रकाशिकायां दिलीपत्रतोपदेशो नाम प्रथमः सर्गः ॥ १ ॥
No. 764.
रसप्रदीपः सटीकः - प्रभाकरः ।
आ - स्वबिंब मंबाकुचकुंभबिंबे विलोकमानं प्रतिबिंबमानम् | प्रचंड धुंडां परितः क्षिपंतं हेरंब मालंबनमाश्रयामः || कलयतु कल्याणचयं रघुकुलतिलकः कुलोपास्यः । यस्य प्रसादलेशात्कपिभिरकूपारलंघनं विहितम् ॥ ग्रंथांतराद्विशेषो यः स्यादस्मिन्नसौ तु गुणगृह्यैः । अवधार्यतां रसज्ञैरज्ञैरितरैर्नरैर्मम किम् ||
इह तावत्काव्यस्यानेकप्रयोजकत्वेपि रससंवेदनजन्यं सुखमेव मुख्यं प्रयोजनम् ||
च॰–विस्तरेण चेयं वृत्तिरस्माभिरलंकाररहस्ये प्रसाधितेत्युपरम्यत इति ||
श्रीमत्पुरारिपुटभेदनवासपूतः
श्रीरामचंद्र पदसारसचंचरीकः ।
श्रीविश्वनाथविबुधप्रतिपन्नविद्यः
श्रीमान्प्रभाकर इमं व्यतनोत्प्रबंधम् ॥ १ ॥
35
भवतु कृरिरियं विदेहपुत्री परिवृढपादपयोजयोर्मदीया |
कठिनविपिन भूमिरेणुखंडक्षपणपटुः सरसामृतोर्निधारः || २ ||